Sanatan Gyan
सनातन ज्ञानSanatan Gyan

युद्ध काण्ड, सर्ग ८२Yuddha kanda, sarga 82

युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ८२Sarga 82
१. श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ।
।
६.८२.१ ।
।
२. तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः।
विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ।
।
६.८२.२ ।
।
३. कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ।
।
६.८२.३ ।
।
४. पृष्ठतो ऽनुव्रजध्वं मामग्रतो यान्तमाहवे।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ।
।
६.८२.४ ।
।
५. एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः।
शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ।
।
६.८२.५ ।
।
६. अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ।
।
६.८२.६ ।
।
७. स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ।
।
६.८२.७ ।
।
८. स राक्षसानां कदनं चकार सुमहाकपिः।
वृतो वानरसैन्येन कालान्तकयमोपमः ।
।
६.८२.८ ।
।
९. स तु कोपेन चाविष्टः शोकेन च महाकपिः।
हनुमान् रावणिरथे ऽपातयन्महतीं शिलाम् ।
।
६.८२.९ ।
।
१०. तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।
विधेयाश्वसमायुक्तः सुदूरमपवाहितः ।
।
६.८२.१० ।
।
११. तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।
विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता ।
।
६.८२.११ ।
।
१२. पातितायां शिलायां तु रक्षसां व्यथिता चमूः।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ।
।
६.८२.१२ ।
।
१३. तमभ्यधावञ्छतशो नदन्तः काननौकसः ।
।
६.८२.१३ ।
।
१४. ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।
क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ।
।
६.८२.१४ ।
।
१५. वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः।
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ।
।
६.८२.१५ ।
।
१६. वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः।
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ।
।
६.८२.१६ ।
।
१७. स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ।
।
६.८२.१७ ।
।
१८. स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः।
जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः ।
।
६.८२.१८ ।
।
१९. शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः।
ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ।
।
६.८२.१९ ।
।
२०. सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः।
हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ।
।
६.८२.२० ।
।
२१. स निवार्य परानीकमब्रवीत्तान् वनौकसः।
हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम् ।
।
६.८२.२१ ।
।
२२. त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः।
यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ।
।
६.८२.२२ ।
।
२३. इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ।
।
६.८२.२३ ।
।
२४. इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्।
शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ।
।
६.८२.२४ ।
।
२५. ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।
स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ।
।
६.८२.२५ ।
।
२६. निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ।
।
६.८२.२६ ।
।
२७. यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा।
हूयमानः प्रजज्वाल मांसशोणितभुक् तदा ।
।
६.८२.२७ ।
।
२८. सो ऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः।
सन्ध्यागत इवादित्यः सुतीव्रो ऽग्निः समुत्थितः ।
।
६.८२.२८ ।
।
२९. अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ।
।
६.८२.२९ ।
।
३०. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्व्यशीततमः सर्गः ।
।
८२ ।
।