युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ७२Sarga 72
१. अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा।
उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ।
।
६.७२.१ ।
।
२. धूभ्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः।
अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ।
।
६.७२.२ ।
।
३. एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः।
जेतारः परसैन्यानां परैर्नित्यापराजिताः ।
।
६.७२.३ ।
।
४. निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा।
राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः।
अन्ये च बहवः शूरा महात्मानो निपातिताः ।
।
६.७२.४ ।
।
५. प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम।
यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ।
।
६.७२.५ ।
।
६. यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः।
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ।
।
६.७२.६ ।
।
७. तन्न जाने प्रभावैर्वा मायया मोहनेन वा।
शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ।
।
६.७२.७ ।
।
८. ये योधा निर्गताः शूरा राक्षसा मम शासनात्।
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ।
।
६.७२.८ ।
।
९. तं न पश्याम्यहं युद्धे यो ऽद्य रामं सलक्ष्मणम्।
शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ।
।
६.७२.९ ।
।
१०. अहो नु बलवान् रामो महदस्त्रबलं च वै।
यस्य विक्रममासाद्य राक्षसा निधनं गताः ।
।
६.७२.१० ।
।
११. तं मन्ये राघवं वीरं नारायणमनामयम्।
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ।
।
६.७२.११ ।
।
१२. अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ।
।
६.७२.१२ ।
।
१३. अशोकवनिकायां च यत्र सीता ऽभिरक्ष्यते।
निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ।
।
६.७२.१३ ।
।
१४. यत्र यत्र भवेद् गुल्मस्तत्रतत्र पुनःपुनः।
सर्वतश्चापि तिष्ठध्वं स्वैःस्वैः परिवृता बलैः ।
।
६.७२.१४ ।
।
१५. द्रष्टव्यं च पदं तेषां वानराणां निशाचराः।
प्रदोषे वा ऽर्धरात्रे वा प्रत्यूषे वापि सर्वतः ।
।
६.७२.१५ ।
।
१६. नावज्ञा तत्र कर्तव्या वानरेषु कदाचन।
द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ।
।
६.७२.१६ ।
।
१७. ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।
वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ।
।
६.७२.१७ ।
।
१८. स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः।
मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ।
।
६.७२.१८ ।
।
१९. ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः।
तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ।
।
६.७२.१९ ।
।
२०. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विसप्ततितमः सर्गः ।
।
७२ ।
।