Sanatan Gyan
सनातन ज्ञानSanatan Gyan

युद्ध काण्ड, सर्ग ७Yuddha kanda, sarga 7

युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ७Sarga 7
१. इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।
ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥।
।
२. द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।
राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥।
।
३. सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।
त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥।
।
४. कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।
सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥।
।
५. स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।
निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥।
।
६. विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।
त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥।
।
७. मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।
दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥।
।
८. दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः ।
विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥।
।
९. निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।
वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥।
।
१०. अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।
त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥।
।
११. स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।
मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥।
।
१२. शूराः च बलवन्तः च वरुणस्य सुता रणे ।
निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥।
।
१३. मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।
कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥।
।
१४. महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् ।
अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥।
।
१५. जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।
सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥।
।
१६. क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।
आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥।
।
१७. तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे ।
प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥।
।
१८. तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।
अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥।
।
१९. अनेन हि महाराज महेश्वरमनुत्तमम् ।
इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥।
।
२०. शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् ।
गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥।
।
२१. रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् ।
रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥।
।
२२. अनेन हि समासाद्य देवानाम् बलसागम् ।
गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥।
।
२३. पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।
गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥।
।
२४. तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।
यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥।
।
२५. राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।
हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम्