युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ६३Sarga 63
१. तस्य राक्षसराजस्य निशम्य परिदेवितम् ।
कुम्भकर्णो बभाषेदं वचनं प्रजहास च ।
।
६.६३.१ ।
।
२. दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया ।
।
६.६३.२ ।
।
३. शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।
।
६.६३.३ ।
।
४. प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।
।
६.६३.४ ।
।
५. यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वं चापरकार्याणि न स वेद नयानयौ ।
।
६.६३.५ ।
।
६. देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।
।
६.६३.६ ।
।
७. त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।
।
६.६३.७ ।
।
८. यथागमं च यो राजा समयं विचिकीर्षति ।
बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ।
।
६.६३.८ ।
।
९. धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।
।
६.६३.९ ।
।
१०. त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।
।
६.६३.१० ।
।
११. उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।
।
६.६३.११ ।
।
१२. काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।
निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ।
।
६.६३.१२ ।
।
१३. हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।
राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ।
।
६.६३.१३ ।
।
१४. अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।
।
६.६३.१४ ।
।
१५. अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ।
।
६.६३.१५ ।
।
१६. अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।
।
६.६३.१६ ।
।
१७. विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ।
।
६.६३.१७ ।
।
१८. तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।
व्यवहारेण जानीयात् सचिवानुपसंहितान् ।
।
६.६३.१८ ।
।
१९. चपलस्येह कृत्यानि सहसानुप्रधावतः ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ।
।
६.६३.१९ ।
।
२०. यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति ।
अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते ।
।
६.६३.२० ।
।
२१. यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।
तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ।
।
६.६३.२१ ।
।
२२. तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।
भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ।
।
६.६३.२२ ।
।
२३. मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।
किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ।
।
६.६३.२३ ।
।
२४. विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ।
।
६.६३.२४ ।
।
२५. अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ।
।
६.६३.२५ ।
।
२६. ममापनयजं दोषं विक्रमेण समीकुरु ।
यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि ।
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।
।
६.६३.२६ ।
।
२७. स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते ।
स बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते ।
।
६.६३.२७ ।
।
२८. तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।
रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।
।
६.६३.२८ ।
।
२९. अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।
।
६.६३.२९ ।
।
३०. अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते ।
रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।
।
६.६३.३० ।
।
३१. नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।
तमहं नाशयिष्यामि यत्कृते परितप्यसे ।
।
६.६३.३१ ।
।
३२. अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।
।
६.६३.३२ ।
।
३३. सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना ।
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।
।
६.६३.३३ ।
।
३४. अद्य पश्य महाबाहो मया समरमूर्धनि ।
हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ।
।
६.६३.३४ ।
।
३५. अद्य रामस्य तद् दृष्ट्वा मया ऽ ऽनीतं रणाच्छिरः ।
सुखी भव महाबाहो सीता भवतु दुःखिता ।
।
६.६३.३५ ।
।
३६. अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।
।
६.६३.३६ ।
।
३७. अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।
शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।
।
६.६३.३७ ।
।
३८. अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।
विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।
।
६.६३.३८ ।
।
३९. कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।
।
६.६३.३९ ।
।
४०. अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।
नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।
।
६.६३.४० ।
।
४१. कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।
न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।
।
६.६३.४१ ।
।
४२. अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।
।
६.६३.४२ ।
।
४३. यदि शक्रो यदि यमो यदि पावकमारुतौ ।
तानहं योधयिष्यामि कुबेरवरुणावपि ।
।
६.६३.४३ ।
।
४४. गिरिमात्रशरीरस्य शितशूलधरस्य मे ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।
।
६.६३.४४ ।
।
४५. अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।
न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।
।
६.६३.४५ ।
।
४६. नैव शक्त्या न गदया नासिना निशितैः शरैः ।
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।
।
६.६३.४६ ।
।
४७. यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।
।
६.६३.४७ ।
।
४८. चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।
सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।
।
६.६३.४८ ।
।
४९. मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।
हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।
।
६.६३.४९ ।
।
५०. हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।
असाधारणमिच्छामि तव दातुं महद्यशः ।
।
६.६३.५० ।
।
५१. यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।
।
६.६३.५१ ।
।
५२. अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।
आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।
।
६.६३.५२ ।
।
५३. शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।
।
६.६३.५३ ।
।
५४. दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।
।
६.६३.५४ ।
।
५५. नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।
।
६.६३.५५ ।
।
५६. वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।
निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।
।
६.६३.५६ ।
।
५७. रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।
मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।
।
६.६३.५७ ।
।
५८. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।
।
६३ ।
।