युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ५९Sarga 59
१. तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।
भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ।
।
६.५९.१ ।
।
।
।
२. गत्वा ऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।
तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ।
।
६.५९.२ ।
।
।
।
३. सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।
उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ।
।
६.५९.३ ।
।
।
।
४. नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।
।
६.५९.४ ।
।
।
।
५. सो ऽहं रिपुविनाशाय विजयायाविचारयन् ।
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।
।
६.५९.५ ।
।
।
।
६. अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।
निर्दहिष्यामि वाणौघैर्वनं दीप्तैरिवाग्निभिः ।
।
६.५९.६ ।
।
।
।
७. स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।
प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।
।
६.५९.७ ।
।
।
।
८. स शङ्खभैरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।
पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ।
।
६.५९.८ ।
।
।
।
९. स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रेः ।
बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ।
।
६.५९.९ ।
।
।
।
१०. ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
महार्णवाभ्रस्तनितं ददर्शं समुद्यतं पादपशैलहस्तम् ।
।
६.५९.१० ।
।
।
।
११. तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।
विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ।
।
६.५९.११ ।
।
।
।
१२. नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।
सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ।
।
६.५९.१२ ।
।
।
।
१३. ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।
शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ।
।
६.५९.१३ ।
।
।
।
१४. यो ऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।
प्रकम्पयन्नागशिरो ऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ।
।
६.५९.१४ ।
।
।
।
१५. यो ऽसौ रथस्थो मृगराजकेतुर्धून्वन् धनुः शक्रधनुःप्रकाशम् ।
करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ।
।
६.५९.१५ ।
।
।
।
१६. यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थो ऽतिरथो ऽतिवीरः ।
विस्फारयंश्चापमतुल्यमानं नाम्ना ऽतिकायो ऽतिविवृद्धकायः ।
।
६.५९.१६ ।
।
।
।
१७. यो ऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।
गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ।
।
६.५९.१७ ।
।
।
।
१८. यो ऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।
प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषो ऽशनितुल्यवेगः ।
।
६.५९.१८ ।
।
।
।
१९. यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् ।
वृषेन्द्रमास्थाय गिरिप्रकाशमायाति यो ऽसौ त्रिशिरा यशस्वी ।
।
६.५९.१९ ।
।
।
।
२०. असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।
समाहितः पन्नगराजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ।
।
६.५९.२० ।
।
।
।
२१. यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।
आयाति रक्षोबलकेतुभूतस्त्वसौ निकुम्भो ऽद्भुतघोरकर्मा ।
।
६.५९.२१ ।
।
।
।
२२. यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।
रथं समास्थाय विभात्युदग्रो नरान्तको ऽसौ नगशृङ्गयोधी ।
।
६.५९.२२ ।
।
।
।
२३. यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।
भूतैर्वृतो भाति विवृत्तनेत्रैः सो ऽसौ सुराणामपि दर्पहन्ता ।
।
६.५९.२३ ।
।
।
।
२४. यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।
अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।
।
६.५९.२४ ।
।
।
।
२५. असौ किरीटी चलुकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।
महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ।
।
६.५९.२५ ।
।
।
।
२६. प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।
अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ।
।
६.५९.२६ ।
।
।
।
२७. आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।
सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ।
।
६.५९.२७ ।
।
।
।
२८. देवदानववीराणां वपुर्नैवंविधं भवेत् ।
यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ।
।
६.५९.२८ ।
।
।
।
२९. सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः ।
सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ।
।
६.५९.२९ ।
।
।
।
३०. भाति राक्षसराजो ऽसौ प्रदीप्तैर्भीमविक्रमैः ।
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।
।
६.५९.३० ।
।
।
।
३१. दिष्ट्या ऽयमद्य पापात्मा मम दृष्टिपथं गतः ।
अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ।
।
६.५९.३१ ।
।
।
।
३२. एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।
लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ।
।
६.५९.३२ ।
।
।
।
३३. ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।
द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।
।
६.५९.३३ ।
।
।
।
३४. इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा ।
शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ।
।
६.५९.३४ ।
।
।
।
३५. विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् ।
व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ।
।
६.५९.३५ ।
।
।
।
३६. तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।
महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ।
।
६.५९.३६ ।
।
।
।
३७. तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।
तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ।
।
६.५९.३७ ।
।
।
।
३८. तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् ।
महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ।
।
६.५९.३८ ।
।
।
।
३९. स तं गृहीत्वा ऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।
बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ।
।
६.५९.३९ ।
।
।
।
४०. स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।
सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ।
।
६.५९.४० ।
।
।
।
४१. स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः ।
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।
।
६.५९.४१ ।
।
।
।
४२. ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।
शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ।
।
६.५९.४२ ।
।
।
।
४३. तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः ।
तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ।
।
६.५९.४३ ।
।
।
।
४४. ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना विपेतुर्भुवि भीमकायाः ।
ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ।
।
६.५९.४४ ।
।
।
।
४५. ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।
शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ।
।
६.५९.४५ ।
।
।
।
४६. ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ।
।
६.५९.४६ ।
।
।
।
४७. काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।
विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ।
।
६.५९.४७ ।
।
।
।
४८. तमब्रवीन्महतेजा रामः सत्यपराक्रमः ।
।
६.५९.४८ ।
।
।
।
४९. गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ।
रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः ।
त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ।
।
६.५९.४९ ।
।
।
।
५०. तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।
चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ।
।
६.५९.५० ।
।
।
।
५१. राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।
अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।
।
६.५९.५१ ।
।
।
।
५२. स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।
प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ।
।
६.५९.५२ ।
।
।
।
५३. तमालोक्य महातेजा हनुमान् मारुतात्मजः ।
निवार्य शरजालानि प्रदुर्द्राव स रावणम् ।
।
६.५९.५३ ।
।
।
।
५४. रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।
त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ।
।
६.५९.५४ ।
।
।
।
५५. देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।
अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।
।
६.५९.५५ ।
।
।
।
५६. एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।
विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ।
।
६.५९.५६ ।
।
।
।
५७. श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।
संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ।
।
६.५९.५७ ।
।
।
।
५८. क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।
ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ।
।
६.५९.५८ ।
।
।
।
५९. रावणस्य वचः श्रुत्वा वायुसूनुर्वचो ऽब्रवीत् ।
प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ।
।
६.५९.५९ ।
।
।
।
६०. एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।
आजघानानिलसुतं तलेनोरसि वीर्यवान् ।
।
६.५९.६० ।
।
।
।
६१. स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।
स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ।
आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।
।
६.५९.६१ ।
।
।
।
६२. ततस्तलेनाभिहतो वानरेण महात्मना ।
दशग्रीवः समाधूतो यथा भूमिचले ऽचलः ।
।
६.५९.६२ ।
।
तिः ।
।
।
६३. सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ।
।
६.५९.६३ ।
।
।
।
६४. अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।
।
६.५९.६४ ।
।
।
।
६५. साधु वानर वीर्येण श्लाघनीयो ऽसि मे रिपुः ।
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।
।
६.५९.६५ ।
।
।
।
६६. धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ।
सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।
ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।
।
६.५९.६६ ।
।
।
।
६७. ततो मारुतिवाक्येन क्रोदस्तस्य तदा ऽज्वलत् ।
।
६.५९.६७ ।
।
दानीं दुर्बुद्धे किं विकत्थसे ।
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।
पातयामास वेगेन वानरोरसि वीर्यवान् ।
।
६.५९.६८ ।
।
।
।
६८. हनुमान् वक्षसि व्यूढे सञ्चचाल पुनःपुनः ।
।
६.५९.६९ ।
।
।
।
६९. विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।
।
६.५९.७० ।
।
।
।
७०. राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।
शरैरादीपयामास नीलं हरिचमूपतिम् ।
।
६.५९.७१ ।
।
।
।
७१. स शरौघसमायस्तो नीलः कपिचमूपतिः ।
करेणैकेन शेलाग्रं रक्षोधिपतये ऽसृजत् ।
।
६.५९.७२ ।
।
।
।
७२. हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।
विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ।
।
६.५९.७३ ।
।
।
।
७३. नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।
अन्येन युद्ध्यमानस्य न युक्तमभिधावनम् ।
।
६.५९.७४ ।
।
।
।
७४. रावणो ऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।
आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ।
।
६.५९.७५ ।
।
।
।
७५. तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।
कालाग्निरिव जज्वाल क्रोधोन परवीरहा ।
।
६.५९.७६ ।
।
।
।
७६. सो ऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान् ।
अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ।
।
६.५९.७७ ।
।
।
।
७७. स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः ।
अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ।
।
६.५९.७८ ।
।
।
।
७८. अभिवृष्टः शरौघेण मेघेनेव महाचलः ।
ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ।
।
६.५९.७९ ।
।
।
।
७९. पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।
जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ।
।
६.५९.८० ।
।
।
।
८०. ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।
लक्ष्मणो ऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ।
।
६.५९.८१ ।
।
।
।
८१. रावणो ऽपि महातेजाः कपिलाघवविस्मितः ।
अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ।
।
६.५९.८२ ।
।
।
।
८२. ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।
नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ।
।
६.५९.८३ ।
।
।
।
८३. वानराणां च नादेन संरब्धो रावणस्तदा ।
सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ।
।
६.५९.८४ ।
।
।
।
८४. आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।
ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ।
ततो ऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।
।
६.५९.८५ ।
।
।
।
८५. कपे लाघवयुक्तो ऽसि मायया परया ऽनया ।
जीवितं खलु रक्षस्व यदि शक्तो ऽसि वानर ।
।
६.५९.८६ ।
।
।
।
८६. तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ।
।
६.५९.८७ ।
।
।
।
८७. तथापि त्वां मया युक्तः सायको ऽस्त्रप्रयोजितः ।
जीवतं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ।
।
६.५९.८८ ।
।
।
।
८८. एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।
सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ।
।
६.५९.८९ ।
।
।
।
८९. सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।
निर्दह्यमानः सहसा निपपात महीतले ।
।
६.५९.९० ।
।
।
।
९०. पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।
जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ।
।
६.५९.९१ ।
।
।
।
९१. विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।
रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ।
।
६.५९.९२ ।
।
।
।
९२. आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।
धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ।
।
६.५९.९३ ।
।
।
।
९३. तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।
अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ।
।
६.५९.९४ ।
।
।
।
९४. स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।
आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ।
।
६.५९.९५ ।
।
।
।
९५. दिष्ट्या ऽसि मे राघव दृष्टिमार्गं प्राप्तो ऽन्तगामी विपरीतबुद्धिः ।
अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ।
।
६.५९.९६ ।
।
।
।
९६. तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।
राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।
।
६.५९.९७ ।
।
।
।
९७. जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ।
अवस्थितो ऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ।
।
६.५९.९८ ।
।
।
।
९८. स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान् ।
तान् लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ।
।
६.५९.९९ ।
।
।
।
९९. तान् प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।
लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान् ।
।
६.५९.१०० ।
।
।
।
१००. स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् ।
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ।
।
६.५९.१०१ ।
।
।
।
१०१. स बाणजालान्यथ तानि तानि मोघानि पश्यं स्त्रिदशारिराजः ।
विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान् मुमोच ।
।
६.५९.१०२ ।
।
।
।
१०२. स लक्ष्मणश्चाशु शरान् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान् ।
सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ।
।
६.५९.१०३ ।
।
।
।
१०३. स तान् प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान ।
शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।
।
६.५९.१०४ ।
।
।
।
१०४. स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।
पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ।
।
६.५९.१०५ ।
।
।
।
१०५. निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रः ।
स सायकार्तो विचचाल राजा कृच्छ्राच्च सञ्ज्ञां पुनराससाद ।
।
६.५९.१०६ ।
।
।
।
१०६. स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।
जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।
।
६.५९.१०७ ।
।
।
।
१०७. स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।
चिक्षेप शक्तिं तरसाज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।
।
६.५९.१०८ ।
।
।
।
१०८. तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।
तथापि सा तस्य विवेश शक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ।
।
६.५९.१०९ ।
।
।
।
१०९. स शक्तिमान् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः ।
तं विह्वलन्तं सहसा ऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ।
।
६.५९.११० ।
।
।
।
११०. हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।
शक्यं भुजाभ्यामुद्धर्तु न सङ्ख्ये भरतानुजः ।
।
६.५९.१११ ।
।
।
।
१११. शक्त्या ब्राह्म्या ऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे ।
विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ।
।
६.५९.११२ ।
।
।
।
११२. ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।
तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घने ऽभवत् ।
अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ।
।
६.५९.११३ ।
।
।
।
११३. अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।
।
६.५९.११४ ।
।
।
।
११४. तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।
जानुभ्यामपतद्भूमौ चचाल च पपात च ।
।
६.५९.११५ ।
।
।
।
११५. आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ।
।
६.५९.११६ ।
।
।
।
११६. विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।
विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् ।
।
६.५९.११७ ।
।
।
।
११७. विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।
ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।
।
६.५९.११८ ।
।
।
।
११८. हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ।
।
६.५९.११९ ।
।
।
।
११९. वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।
शत्रूणामप्रकम्प्यो ऽपि लघुत्वमगमत् कपेः ।
।
६.५९.१२० ।
।
।
।
१२०. तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।
रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ।
।
६.५९.१२१ ।
।
।
।
१२१. आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।
विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ।
।
६.५९.१२२ ।
।
।
।
१२२. रावणो ऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे ।
आददे निशितान् बाणान् जग्राह च महद्धनुः ।
।
६.५९.१२३ ।
।
।
।
१२३. निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ।
।
६.५९.१२४ ।
।
।
।
१२४. अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत् ।
मम पृष्टं समारुह्य राक्षसं शास्तुमर्हसि ।
।
६.५९.१२५ ।
।
।
।
१२५. विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।
तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।
आरुरोह महाशूरो बलवन्तं महाकपिम् ।
।
६.५९.१२६ ।
।
।
।
१२६. रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ।
।
६.५९.१२७ ।
।
।
।
१२७. ा राघवो वाक्यं वायुपुत्रेण भाषितम् ।
तमालोक्य माहतेजाः प्रदुद्राव स राघवः ।
वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ।
।
६.५९.१२८ ।
।
।
।
१२८. ज्याशब्दमकरोत्तीवं वज्रनिष्पेषनिस्वनम् ।
।
६.५९.१२९ ।
।
।
।
१२९. गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ।
।
६.५९.१३० ।
।
।
।
।
१३०. तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीद्दशम् ।
क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।
।
६.५९.१३१ ।
।
।
।
१३१. यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा ।
गमिष्यसि त्वं दश वा दिशो ऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ।
।
६.५९.१३२ ।
।
।
।
१३२. यश्चैव शक्त्या ऽभिहतस्त्वया ऽद्य इच्छन् विषादं सहसा ऽभ्युपेतः ।
स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्ययुद्धे ।
।
६.५९.१३३ ।
।
।
।
१३३. एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।
चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ।
।
६.५९.१३४ ।
।
।
।
१३४. राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।
वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।
आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।
।
६.५९.१३५ ।
।
।
।
१३५. राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।
स्वभावतेजोयुक्तस्य भूयस्तेजो ऽभ्यवर्धत ।
।
६.५९.१३६ ।
।
।
।
१३६. ततो रामो महातेजा रावणेन कृतव्रणम् ।
दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ।
।
६.५९.१३७ ।
।
।
।
१३७. तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ।
।
६.५९.१३८ ।
।
।
।
१३८. अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।
भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ।
।
६.५९.१३९ ।
।
।
।
१३९. यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।
स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ।
।
६.५९.१४० ।
।
।
।
१४०. तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।
तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ।
।
६.५९.१४१ ।
।
।
।
१४१. तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।
गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ।
।
६.५९.१४२ ।
।
।
।
१४२. कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वया ऽहम् ।
तस्मात् परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ।
।
६.५९.१४३ ।
।
।
।
१४३. गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।
आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ।
।
६.५९.१४४ ।
।
।
।
१४४. स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।
शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ।
।
६.५९.१४५ ।
।
।
।
१४५. तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।
हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ।
।
६.५९.१४६ ।
।
।
।
१४६. तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।
ससागराः सर्षिमहोरागाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ।
।
६.५९.१४७ ।
।