युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ५८Sarga 58
१. ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।
उवाच सस्मितं रामो विभीषणमरिन्दमः ।
।
६.५८.१ ।
।
।
।
२. क एष सुमहाकायो बलेन महता वृतः ।
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ।
।
६.५८.२ ।
।
।
।
३. राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।
।
६.५८.३ ।
।
।
।
४. एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।
लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः ।
वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ।
।
६.५८.४ ।
।
।
।
५. ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।
।
६.५८.५ ।
।
।
।
६. ददर्श महती सेना वानराणां बलीयसाम् ।
अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ।
।
६.५८.६ ।
।
।
।
७. खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।
।
६.५८.७ ।
।
।
।
८. धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।
प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।
।
६.५८.८ ।
।
।
।
९. जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः ।
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।
।
६.५८.९ ।
।
।
।
१०. तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् ।
बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।
।
६.५८.१० ।
।
।
।
११. बहवो राक्षसा युद्धे बहून् वानरयूथपान् ।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ।
।
६.५८.११ ।
।
।
।
१२. शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः ।
परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ।
।
६.५८.१२ ।
।
।
।
१३. निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले ।
विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ।
।
६.५८.१३ ।
।
।
।
१४. केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।
वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ।
।
६.५८.१४ ।
।
।
।
१५. वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः ।
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ।
।
६.५८.१५ ।
।
।
।
१६. वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।
वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ।
।
६.५८.१६ ।
।
।
।
१७. आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।
।
६.५८.१७ ।
।
।
।
१८. वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।
विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ।
।
६.५८.१८ ।
।
।
।
१९. नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ।
।
६.५८.१९ ।
।
।
।
२०. तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।
।
६.५८.२० ।
।
।
।
२१. दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।
राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ।
।
६.५८.२१ ।
।
।
।
२२. जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् ।
पातयामास तेजस्वी महानादस्य वक्षसि ।
।
६.५८.२२ ।
।
।
।
२३. अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।
वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ।
।
६.५८.२३ ।
।
।
।
२४. अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ।
।
६.५८.२४ ।
।
।
।
२५. आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा ।
क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ।
।
६.५८.२५ ।
।
।
।
२६. महता हि शरौघेण प्रहस्तो युद्धकोविदः ।
अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ।
।
६.५८.२६ ।
।
।
।
२७. वानराणां शरीरैश्च राक्षसानां च मेदिनी ।
बभूव निचिता घोरा पतितैरिव पर्वतैः ।
।
६.५८.२७ ।
।
।
।
२८. सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।
सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ।
।
६.५८.२८ ।
।
।
।
२९. हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।
शोणितौघमहातोयां यमसागरगमिनीम् ।
।
६.५८.२९ ।
।
।
।
३०. यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।
भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ।
।
६.५८.३० ।
।
।
।
३१. गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।
मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।
।
६.५८.३१ ।
।
।
।
३२. नदीमिव घनापाये हंससारससेविताम् ।
राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।
।
६.५८.३२ ।
।
।
।
३३. यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।
।
६.५८.३३ ।
।
।
।
३४. ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् ।
ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ।
।
६.५८.३४ ।
।
।
।
३५. उद्धूत इव वायुः खे महदभ्रबलं बलात् ।
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ।
।
६.५८.३५ ।
।
।
।
३६. स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।
नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ।
।
६.५८.३६ ।
।
।
।
३७. ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।
महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ।
।
६.५८.३७ ।
।
।
।
३८. नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
स तं परमदुर्धर्षमापतन्तं महाकपिः ।
।
६.५८.३८ ।
।
।
।
३९. प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।
।
६.५८.३९ ।
।
।
।
४०. स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः ।
ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ।
।
६.५८.४० ।
।
।
।
४१. तस्य बाणगणान् घोरान् राक्षसस्य महाबलः ।
अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ।
।
६.५८.४१ ।
।
।
।
४२. यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।
एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।
।
६.५८.४२ ।
।
।
।
४३. रोषितः शरवर्षेण सालेन महता महान् ।
प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।
।
६.५८.४३ ।
।
।
।
४४. ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।
बभञ्ज तरसा नीलो ननाद च पुनःपुनः ।
।
६.५८.४४ ।
।
।
।
४५. विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।
।
६.५८.४५ ।
।
।
।
४६. तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।
स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।
।
६.५८.४६ ।
।
।
।
४७. उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।
।
६.५८.४७ ।
।
।
।
४८. विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।
।
६.५८.४८ ।
।
।
।
४९. आजघान तदा नीलं ललाटे मुसलेन सः ।
प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ।
।
६.५८.४९ ।
।
।
।
५०. ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।
।
६.५८.५० ।
।
।
।
५१. तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।
।
६.५८.५१ ।
।
।
।
५२. तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।
ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।
।
६.५८.५२ ।
।
।
।
५३. तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।
।
६.५८.५३ ।
।
।
।
५४. सा तेन कपिमुख्येन विमुक्ता महती शिला ।
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।
।
६.५८.५४ ।
।
।
।
५५. स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।
।
६.५८.५५ ।
।
।
।
५६. प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।
।
६.५८.५६ ।
।
।
।
५७. हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।
रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।
।
६.५८.५७ ।
।
।
।
५८. न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।
सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ।
।
६.५८.५८ ।
।
।
।
५९. हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।
प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव ते ऽभवन् ।
।
६.५८.५९ ।
।
।
।
६०. ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ।
।
६.५८.६० ।
।