युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ५२Sarga 52
१. धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।
।
६.५२.१ ।
।
।
।
२. तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।
अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ।
।
६.५२.२ ।
।
।
।
३. घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।
राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ।
।
६.५२.३ ।
।
।
।
४. वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।
विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।
।
६.५२.४ ।
।
।
।
५. ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।
।
६.५२.५ ।
।
श्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।
।
।
६. विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।
।
६.५२.६ ।
।
।
।
७. शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।
।
६.५२.७ ।
।
।
।
८. ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।
ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ।
।
६.५२.८ ।
।
।
।
९. तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।
शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ।
।
६.५२.९ ।
।
।
।
१०. राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।
ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ।
।
६.५२.१० ।
।
।
।
११. पार्श्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः ।
शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ।
।
६.५२.११ ।
।
।
।
१२. ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।
।
६.५२.१२ ।
।
।
।
१३. गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ।
।
६.५२.१३ ।
।
।
।
१४. वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ।
।
६.५२.१४ ।
।
।
।
१५. विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ।
।
६.५२.१५ ।
।
।
।
१६. अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः ।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ।
।
६.५२.१६ ।
।
।
।
१७. वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।
वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।
।
६.५२.१७ ।
।
।
।
१८. सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।
।
६.५२.१८ ।
।
।
।
१९. प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।
मुद्गरैराहताः केचित् पतिता धरणीतले ।
।
६.५२.१९ ।
।
।
।
२०. परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।
पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ।
।
६.५२.२० ।
।
।
।
२१. केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।
केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ।
।
६.५२.२१ ।
।
।
।
२२. विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।
विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।
।
६.५२.२२ ।
।
।
।
२३. तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ।
प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।
।
६.५२.२३ ।
।
।
।
२४. धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।
।
६.५२.२४ ।
।
।
।
२५. धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि ।
हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः ।
।
६.५२.२५ ।
।
।
।
२६. धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ।
अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।
।
६.५२.२६ ।
।
।
।
२७. क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।
।
६.५२.२७ ।
।
।
।
२८. आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।
।
६.५२.२८ ।
।
।
।
२९. सा प्रमथ्य रथं तस्य निपपात शिला भुवि ।
सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।
।
६.५२.२९ ।
।
।
।
३०. स भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः ।
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।
।
६.५२.३० ।
।
।
।
३१. विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।
द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।
।
६.५२.३१ ।
।
।
।
३२. विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः ।
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।
।
६.५२.३२ ।
।
।
।
३३. तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।
विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।
।
६.५२.३३ ।
।
।
।
३४. ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।
पातयामास धूम्राक्षो मस्तके तु हनूमतः ।
।
६.५२.३४ ।
।
।
।
३५. ताडितः स तया तत्र गदया भीमरूपया ।
।
६.५२.३५ ।
।
।
।
३६. स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ।
।
६.५२.३६ ।
।
।
।
३७. स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विकीर्ण इव पर्वतः ।
।
६.५२.३७ ।
।
।
।
३८. धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः ।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ।
।
६.५२.३८ ।
।
।
।
३९. स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।
रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः ।
।
६.५२.३९ ।
।