Sanatan Gyan
सनातन ज्ञानSanatan Gyan

युद्ध काण्ड, सर्ग ४५Yuddha kanda, sarga 45

युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ४५Sarga 45
१. स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् ।
दिदेशातिबलो रामो दश वानरयूथपान् ।
।
६.४५.१ ।
।
।
।
२. द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।
अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ।
।
६.४५.२ ।
।
।
।
३. विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।
ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ।
।
६.४५.३ ।
।
।
।
४. ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।
आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ।
।
६.४५.४ ।
।
।
।
५. तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।
अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः ।
।
६.४५.५ ।
।
।
।
६. तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः ।
अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।
।
६.४५.६ ।
।
।
।
७. रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ।
भृशमावेशयामास रावणिः समितिञ्जयः ।
।
६.४५.७ ।
।
।
।
८. निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्णौ ।
क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ।
।
६.४५.८ ।
।
।
।
९. तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।
तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ।
।
६.४५.९ ।
।
।
।
१०. ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।
रावणिर्भ्रातरौ वाक्यमन्तर्धानगतो ऽब्रवीत् ।
।
६.४५.१० ।
।
।
।
११. युद्ध्यमानमनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः ।
द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ।
।
६.४५.११ ।
।
।
।
१२. प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।
एष रोषपरीतात्मा नयामि यमसादनम् ।
।
६.४५.१२ ।
।
।
।
१३. एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।
निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ।
।
६.४५.१३ ।
।
।
।
१४. भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।
भूयो भूयः शरान् घोरान् विससर्ज महामृधे ।
।
६.४५.१४ ।
।
।
।
१५. ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान् ।
रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ।
।
६.४५.१५ ।
।
।
।
१६. बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।
निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ।
।
६.४५.१६ ।
।
।
।
१७. ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।
ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ।
।
६.४५.१७ ।
।
।
।
१८. तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।
निपेततुर्महेष्वासौ जगत्यां जगतीपती ।
।
६.४५.१८ ।
।
।
।
१९. तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।
शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ।
।
६.४५.१९ ।
।
।
।
२०. न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् ।
नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ।
।
६.४५.२० ।
।
।
।
२१. तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।
असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ।
।
६.४५.२१ ।
।
।
।
२२. पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।
क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ।
।
६.४५.२२ ।
।
।
।
२३. रुक्मपुङ्खैः प्रसन्नाग्रैरधोगतिभिराशुगैः ।
नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।
विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ।
।
६.४५.२३ ।
।
।
।
२४. स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।
भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ।
।
६.४५.२४ ।
।
।
।
२५. बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत् ।
।
६.४५.२५ ।
।
।
।
२६. रामं कमलपत्राक्षं शरबन्धपरिक्षतम् ।
शुशोच भ्रातरं दृष्ट्वा पतितं घरणीतले ।
।
६.४५.२६ ।
।
।
।
२७. हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ।
।
६.४५.२७ ।
।
।
।
२८. बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः ।
समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ।
।
६.४५.२८ ।
।