युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ४४Sarga 44
१. युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।
।
६.४४.१ ।
।
।
।
२. अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।
सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ।
।
६.४४.२ ।
।
।
।
३. राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः ।
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।
।
६.४४.३ ।
।
।
।
४. जहि दारय चैहीति कथं विद्रवसीति च ।
एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।
।
६.४४.४ ।
।
।
।
५. कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।
सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।
।
६.४४.५ ।
।
।
।
६. तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः ।
परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।
।
६.४४.६ ।
।
।
।
७. ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् ।
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।
।
६.४४.७ ।
।
।
।
८. वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् ।
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् ।
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ।
।
६.४४.८ ।
।
।
।
९. लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।
।
६.४४.९ ।
।
।
।
१०. तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।
रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ।
।
६.४४.१० ।
।
।
।
११. वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ।
रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ।
।
६.४४.११ ।
।
।
।
१२. ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।
शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।
।
६.४४.१२ ।
।
।
।
१३. हतानां स्तनमानानां राक्षसानां च निस्वनः ।
शस्तानां वानराणां च सम्बभूवातिदारुणः ।
।
६.४४.१३ ।
।
।
।
१४. हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।
निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ।
।
६.४४.१४ ।
।
।
।
१५. शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।
दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ।
।
६.४४.१५ ।
।
।
।
१६. सा बभूव निशा घोरा हरिराक्षसहारिणी ।
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।
।
६.४४.१६ ।
।
।
।
१७. ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।
राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ।
।
६.४४.१७ ।
।
।
।
१८. तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।
उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ।
।
६.४४.१८ ।
।
।
।
१९. तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् ।
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।
।
६.४४.१९ ।
।
।
।
२०. यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।
।
६.४४.२० ।
।
।
।
२१. ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।
युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन् ।
।
६.४४.२१ ।
।
।
।
२२. तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।
दिशश्चकार विमलाः प्रदिशश्च महाबलः ।
।
६.४४.२२ ।
।
।
।
२३. ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।
ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् ।
।
६.४४.२३ ।
।
।
।
२४. सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।
बभूव रजनी चित्रा खद्योतैरिव शारदी ।
।
६.४४.२४ ।
।
।
।
२५. राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।
सा बभूव निशा घोरा भूयो घोरतरा तदा ।
।
६.४४.२५ ।
।
।
।
२६. तेन शब्देन महता प्रवृद्धेन समन्ततः ।
त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ।
।
६.४४.२६ ।
।
।
।
२७. गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।
सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ।
।
६.४४.२७ ।
।
।
।
२८. अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।
रावणिं निजघानाशु सारथिं च हयानपि ।
।
६.४४.२८ ।
।
।
।
२९. वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।
अङ्गदेन महाकायस्तत्रैवान्तरधीयत ।
।
६.४४.२९ ।
।
।
।
३०. तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।
तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।
।
६.४४.३० ।
।
।
।
३१. प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।
तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ।
।
६.४४.३१ ।
।
।
।
३२. ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।
साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ।
।
६.४४.३२ ।
।
।
।
३३. इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।
संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ।
।
६.४४.३३ ।
।
।
।
३४. एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् ।
।
६.४४.३४ ।
।
।
।
३५. सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ।
।
६.४४.३५ ।
।
।
।
३६. स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।
भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।
अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ।
।
६.४४.३६ ।
।
।
।
३७. सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः ।
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ।
।
६.४४.३७ ।
।
।
।
३८. स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।
।
६.४४.३८ ।
।
।
।
३९. मायया संवृतस्तत्र मोहयन् राघवौ युधि ।
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।
बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ।
।
६.४४.३९ ।
।
।
।
४०. तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।
सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ।
।
६.४४.४० ।
।
।
।
४१. प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।
मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ।
।
६.४४.४१ ।
।