Sanatan Gyan
सनातन ज्ञानSanatan Gyan

युद्ध काण्ड, सर्ग ३९Yuddha kanda, sarga 39

युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ३९Sarga 39
१. ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।
।
६-३९-१।
।
२. सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।
।
६-३९-२।
।
३. चम्पक अशोक पुम्नाग साल ताल समाकुला ।
तमाल वन संचन्ना नाग माला समावृता ।
।
६-३९-३।
।
४. हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।
।
६-३९-४।
।
५. शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।
।
६-३९-५।
।
६. विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।
।
६-३९-६।
।
७. गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।
।
६-३९-७।
।
८. तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।
।
६-३९-८।
।
९. नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।
।
६-३९-९।
।
१०. नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।
कोकिल आकुल षण्डानि विहग अभिरुतानि च ।
।
६-३९-१०।
।
११. भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।
कोणालक विघुष्टानि सारस अभिरुतानि च ।
।
६-३९-११।
।
१२. विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।
।
६-३९-१२।
।
१३. तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।
।
६-३९-१३।
।
१४. अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।
।
६-३९-१४।
।
१५. वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।
।
६-३९-१५।
।
१६. कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।
।
६-३९-१६।
।
१७. ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।
।
६-३९-१७।
।
१८. शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।
।
६-३९-१८।
।
१९. शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।
।
६-३९-१९।
।
२०. मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।
निविष्टा तत्र शिखरे लन्का रावण पालिता ।
।
६-३९-२०।
।
२१. दशयोजनविस्तीर्णा विंशद्योजनमायता ।
सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।
कान्चनेन च सालेन राजतेन च शोभिता ।
।
६-३९-२१।
।
२२. प्रासादैश् च विमानैश् च लन्का परम भूषिता ।
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।
।
६-३९-२२।
।
२३. तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।
।
६-३९-२३।
।
२४. चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।
।
६-३९-२४।
।
२५. मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।
।
६-३९-२५।
।
२६. नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।
नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।
।
६-३९-२६।
।
२७. ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।
रावणस्य पुरीम् रामो ददर्श सह वानरैः ।
।
६-३९-२७।
।
२८. ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८।
।
२९. ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।
प्रासाद मालाभिर् अलम्कृताम् च ।
पुरीम् महा यन्त्र कवाट मुख्याम् ।
ददर्श रामो महता बलेन ।
।
६-३९-२९