Sanatan Gyan
सनातन ज्ञानSanatan Gyan

युद्ध काण्ड, सर्ग ११२Yuddha kanda, sarga 112

युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग ११२Sarga 112
१. भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।
शोकवेगपरीतात्मा विललाप विभीषणः ।
।
६.११२.१ ।
।
२. वीर विक्रान्त विख्यात विनीत नयकोविद ।
महार्हशयनोपेत किं शेषे ऽद्य हतो भुवि ।
।
६.११२.२ ।
।
३. विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ।
।
६.११२.३ ।
।
४. तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ।
।
६.११२.४ ।
।
५. यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।
न कुम्भकर्णो ऽतिरथो नातिकायो नरान्तकः ।
न स्वयं त्वममन्येथास्तस्योदर्को ऽयमागतः ।
।
६.११२.५ ।
।
६. गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।
गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ।
।
६.११२.६ ।
।
७. आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।
।
६.११२.७ ।
।
८. चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।
अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ।
।
६.११२.८ ।
।
९. किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् ।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ।
।
६.११२.९ ।
।
१०. धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।
रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ।
।
६.११२.१० ।
।
११. तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ।
।
६.११२.११ ।
।
१२. पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।
प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ।
।
६.११२.१२ ।
।
१३. सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतो ऽवसन्नः ।
।
६.११२.१३ ।
।
१४. वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ।
।
६.११२.१४ ।
।
१५. नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।
अत्युन्नतमहोत्साहः पतितो ऽयमशङ्कितः ।
।
६.११२.१५ ।
।
१६. नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ।
।
६.११२.१६ ।
।
१७. येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।
तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ।
।
६.११२.१७ ।
।
१८. नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ।
।
६.११२.१८ ।
।
१९. इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।
क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चय ।
।
६.११२.१९ ।
।
२०. तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ।
।
६.११२.२० ।
।
२१. तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ।
।
६.११२.२१ ।
।
२२. यो ऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।
भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ।
।
६.११२.२२ ।
।
२३. अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।
धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ।
।
६.११२.२३ ।
।
२४. एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः ।
एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ।
।
६.११२.२४ ।
।
२५. स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन ।
आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ।
।
६.११२.२५ ।
।
२६. मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ।
।
६.११२.२६ ।
।
२७. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ।
।
११२ ।
।