युद्ध काण्डYuddha kandaरामायणRamayanaरामRamaसर्ग १०९Sarga 109
१. ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।
सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ।
।
६.१०९.१ ।
।
२. ततो राक्षससैन्यं च हरीणां च महद्बलम् ।
प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ।
।
६.१०९.२ ।
।
३. सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ।
।
६.१०९.३ ।
।
४. नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।
सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ।
।
६.१०९.४ ।
।
५. रक्षसां रावणं चापि वानराणां च राघवम् ।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ।
।
६.१०९.५ ।
।
६. तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् ।
।
६.१०९.६ ।
।
७. जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।
धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा ।
।
६.१०९.७ ।
।
८. ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान् ।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ।
।
६.१०९.८ ।
।
९. ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।
रथशक्तिं परामृश्य निपेतुर्धरणीतले ।
।
६.१०९.९ ।
।
१०. ततो रामो ऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् ।
कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ।
।
६.१०९.१० ।
।
११. रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ।
।
६.१०९.११ ।
।
१२. जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ।
स निकृत्तो ऽपतद्भूमौ रावणस्य रथध्वजः ।
।
६.१०९.१२ ।
।
१३. ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।
सम्प्रदीप्तो ऽभवत् क्रोधादमर्षात् प्रदहन्निव ।
।
६.१०९.१३ ।
।
१४. स रोषवशमापन्नः शरवर्षं महद्वमन् ।
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ।
।
६.१०९.१४ ।
।
१५. ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ।
।
६.१०९.१५ ।
।
१६. तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।
भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ।
।
६.१०९.१६ ।
।
१७. गदाश्च परिघाश्चैव चक्राणि मुसलानि च ।
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ।
।
६.१०९.१७ ।
।
१८. मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ।
।
६.१०९.१८ ।
।
१९. तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।
विमुच्य राघवरथं समान्ताद्वानरे बले ।
।
६.१०९.१९ ।
।
२०. सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।
सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।
मुमोच च दशग्रीवो निस्सङ्गेना ऽन्तरात्मना ।
।
६.१०९.२० ।
।
२१. व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।
प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ।
।
६.१०९.२१ ।
।
२२. स मुमोच ततो बाणान् रणे शतसहस्रशः ।
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ।
।
६.१०९.२२ ।
।
२३. ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।
।
६.१०९.२३ ।
।
२४. नानिमित्तो ऽभवद्बाणो नातिभेत्ता न निष्फलः ।
।
६.१०९.२४ ।
।
२५. अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।
तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ।
।
६.१०९.२५ ।
।
२६. प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।
चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ।
।
६.१०९.२६ ।
।
२७. रावणस्य हयान् रामो हयान् रामस्य रावणः ।
जघ्नतुस्तौ तथा ऽन्योन्यं कृतानुकृतकारिणौ ।
।
६.१०९.२७ ।
।
२८. एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।
मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ।
।
६.१०९.२८ ।
।
२९. प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।
ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ।
।
६.१०९.२९ ।
।
३०. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः ।
।
१०९ ।
।