उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ९५Sarga 95
१. रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।
शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।
।
७.९५.१ ॥
२. तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।
दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।
।
७.९५.२ ॥
३. मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।
।
७.९५.३ ।
।
परिषदो मध्ये रामो वचनमब्रवीत् ।
यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।
।
७.९५.४ ॥
४. छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।
प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।
।
७.९५.५ ॥
५. श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।
करोतु परिषन्मध्ये शोधनार्थं ममैव च ।
।
७.९५.६ ॥
६. श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।
दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।
।
७.९५.७ ॥
७. ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।
।
७.९५.८ ॥
८. तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।
।
७.९५.९ ॥
९. एवं भवतु भद्रं वो यथा वदति राघवः ।
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।
।
७.९५.१० ॥
१०. तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।
प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।
।
७.९५.११ ॥
११. ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।
।
७.९५.१२ ॥
१२. भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।
पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।
।
७.९५.१३ ॥
१३. तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।
।
७.९५.१४ ॥
१४. राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।
।
७.९५.१५ ॥
१५. एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।
विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।
।
७.९५.१६ ॥
१६. इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।
विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।
।
७.९५.१७ ।
।