Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ८४Uttara kanda, sarga 84

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ८४Sarga 84
१. तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।
।
७.८४.१ ॥
२. अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।
।
७.८४.२ ॥
३. श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।
।
७.८४.३ ॥
४. पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।
।
७.८४.४ ॥
५. विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।
।
७.८४.५ ॥
६. धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।
।
७.८४.६ ॥
७. तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।
रसवन्ति प्रभूनानि मूलानि च फलानि च ।
।
७.८४.७ ॥
८. अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।
।
७.८४.८ ॥
९. तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।
।
७.८४.९ ॥
१०. स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।
।
७.८४.१० ॥
११. तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।
।
७.८४.११ ॥
१२. तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।
।
७.८४.१२ ॥
१३. यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।
।
७.८४.१३ ॥
१४. तं चैनं परमोदारमुपेक्षसि महाबलम् ।
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।
।
७.८४.१४ ॥
१५. यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।
।
७.८४.१५ ॥
१६. स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।
।
७.८४.१६ ॥
१७. इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।
।
७.८४.१७ ॥
१८. त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ।
।
७.८४.१८ ।
।