Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ८१Uttara kanda, sarga 81

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ८१Sarga 81
१. स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ।
।
७.८१.१ ॥
२. सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ।
।
७.८१.२ ॥
३. तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ।
।
७.८१.३ ॥
४. पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ।
।
७.८१.४ ॥
५. क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ।
।
७.८१.५ ॥
६. यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ।
।
७.८१.६ ॥
७. सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।
।
७.८१.७ ॥
८. समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ।
।
७.८१.८ ॥
९. सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ।
।
७.८१.९ ॥
१०. दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।
।
७.८१.१० ॥
११. इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ।
।
७.८१.११ ॥
१२. श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ।
।
७.८१.१२ ॥
१३. स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ।
।
७.८१.१३ ॥
१४. इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ।
।
७.८१.१४ ॥
१५. त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ।
।
७.८१.१५ ॥
१६. श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ।
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ।
।
७.८१.१६ ॥
१७. तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ।
।
७.८१.१७ ॥
१८. तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।
।
७.८१.१८ ॥
१९. ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ।
।
७.८१.१९ ॥
२०. एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ।
।
७.८१.२० ॥
२१. एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ।
।
७.८१.२१ ॥
२२. स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ।
।
७.८१.२२ ।
।