Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ७९Uttara kanda, sarga 79

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ७९Sarga 79
१. तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ।
।
७.७९.१ ॥
२. भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।
।
७.७९.२ ॥
३. तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ।
।
७.७९.३ ॥
४. रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ।
।
७.७९.४ ॥
५. पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ।
।
७.७९.५ ॥
६. तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ।
।
७.७९.६ ॥
७. तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ।
।
७.७९.७ ॥
८. प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ।
।
७.७९.८ ॥
९. अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ।
।
७.७९.९ ॥
१०. तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ।
।
७.७९.१० ॥
११. इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ।
।
७.७९.११ ॥
१२. प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ।
।
७.७९.१२ ॥
१३. कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ।
।
७.७९.१३ ॥
१४. तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ।
।
७.७९.१४ ॥
१५. नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ।
।
७.७९.१५ ॥
१६. अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ।
।
७.७९.१६ ॥
१७. स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ।
।
७.७९.१७ ॥
१८. पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ।
।
७.७९.१८ ॥
१९. एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ।
।
७.७९.१९ ॥
२०. ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ।
।
७.७९.२० ।
।