Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ७२Uttara kanda, sarga 72

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ७२Sarga 72
१. तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ।
।
७.७२.१ ॥
२. तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ।
।
७.७२.२ ॥
३. तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।
।
७.७२.३ ॥
४. भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ।
।
७.७२.४ ॥
५. इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ।
।
७.७२.५ ॥
६. सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ।
।
७.७२.६ ॥
७. स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ।
।
७.७२.७ ॥
८. स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ।
।
७.७२.८ ॥
९. सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ।
।
७.७२.९ ॥
१०. यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ।
।
७.७२.१० ॥
११. द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ।
।
७.७२.११ ॥
१२. स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ।
।
७.७२.१२ ॥
१३. एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ।
।
७.७२.१३ ॥
१४. नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ।
।
७.७२.१४ ॥
१५. काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ।
।
७.७२.१५ ॥
१६. ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ।
।
७.७२.१६ ॥
१७. तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।
।
७.७२.१७ ॥
१८. रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।
।
७.७२.१८ ॥
१९. सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ।
।
७.७२.१९ ॥
२०. आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ।
।
७.७२.२० ॥
२१. दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।
।
७.७२.२१ ।
।