उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ७०Sarga 70
१. हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।
।
७.७०.१ ॥
२. दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत ।
।
७.७०.२ ॥
३. वरदास्तु महाबाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।
।
७.७०.३ ॥
४. देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।
।
७.७०.४ ॥
५. इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।
।
७.७०.५ ॥
६. तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः ।
।
७.७०.६ ॥
७. ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।
।
७.७०.७ ॥
८. सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।
।
७.७०.८ ॥
९. सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।
।
७.७०.९ ॥
१०. क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।
।
७.७०.१० ॥
११. अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।
चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।
।
७.७०.११ ॥
१२. यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।
।
७.७०.१२ ॥
१३. आरामैश्च विहारैश्च शोभमानं समन्ततः ।
शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।
।
७.७०.१३ ॥
१४. तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।
।
७.७०.१४ ॥
१५. तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।
।
७.७०.१५ ॥
१६. तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।
।
७.७०.१६ ॥
१७. ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।
।
७.७०.१७ ।
।