उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ६९Sarga 69
१. तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
।
७.६९.१ ॥
२. पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ।
।
७.६९.२ ॥
३. तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।
।
७.६९.३ ॥
४. न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।
।
७.६९.४ ॥
५. ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।
।
७.६९.५ ॥
६. त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर ।
पुरे जनपदे चापि क्षेममेव भविष्यति ।
।
७.६९.६ ॥
७. अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।
।
७.६९.७ ॥
८. एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।
।
७.६९.८ ॥
९. तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।
पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।
।
७.६९.९ ॥
१०. शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।
।
७.६९.१० ॥
११. ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।
।
७.६९.११ ॥
१२. ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।
।
७.६९.१२ ॥
१३. तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।
।
७.६९.१३ ॥
१४. तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।
।
७.६९.१४ ॥
१५. नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।
ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।
।
७.६९.१५ ॥
१६. मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।
।
७.६९.१६ ॥
१७. ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।
।
७.६९.१७ ॥
१८. वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।
।
७.६९.१८ ॥
१९. असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।
दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।
।
७.६९.१९ ॥
२०. तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।
।
७.६९.२० ॥
२१. सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।
।
७.६९.२१ ॥
२२. उवाच देवदेवेशं वरदं प्रपितामहम् ।
देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।
।
७.६९.२२ ॥
२३. नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।
।
७.६९.२३ ॥
२४. तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
भयकारणमाचष्ट लोकानामभयङ्करः ।
उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।
।
७.६९.२४ ॥
२५. वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।
तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।
।
७.६९.२५ ॥
२६. एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।
शरस्तेजोमयो वत्सा येन वै भयमागतम् ।
।
७.६९.२६ ॥
२७. एष वै कैटभस्यार्थे मधुनश्च महाशरः ।
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।
।
७.६९.२७ ॥
२८. एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।
।
७.६९.२८ ॥
२९. इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।
।
७.६९.२९ ॥
३०. तस्य ते देवदेवस्य निशम्य वचनं सुराः ।
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।
।
७.६९.३० ॥
३१. तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।
।
७.६९.३१ ॥
३२. अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।
सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।
।
७.६९.३२ ॥
३३. आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।
।
७.६९.३३ ॥
३४. आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।
तं मुमोच महाबाणं लवणस्य महोरसि ।
।
७.६९.३४ ॥
३५. उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।
।
७.६९.३५ ॥
३६. गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।
।
७.६९.३६ ॥
३७. शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ।
।
७.६९.३७ ॥
३८. तच्च शूलं महत्तेन हते लवणराक्षसे ।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।
।
७.६९.३८ ॥
३९. एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।
विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।
।
७.६९.३९ ॥
४०. ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।
दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।
।
७.६९.४० ।
।