उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ६७Sarga 67
१. अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।
।
७.६७.१ ॥
२. शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।
।
७.६७.२ ॥
३. तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।
।
७.६७.३ ॥
४. असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।
।
७.६७.४ ॥
५. अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।
मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।
।
७.६७.५ ॥
६. स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।
।
७.६७.६ ॥
७. इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ।
।
७.६७.७ ॥
८. अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।
।
७.६७.८ ॥
९. तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।
।
७.६७.९ ॥
१०. राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।
।
७.६७.१० ॥
११. यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।
।
७.६७.११ ॥
१२. इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।
।
७.६७.१२ ॥
१३. तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।
।
७.६७.१३ ॥
१४. तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।
।
७.६७.१४ ॥
१५. आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।
।
७.६७.१५ ॥
१६. स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।
।
७.६७.१६ ॥
१७. स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।
।
७.६७.१७ ॥
१८. स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।
।
७.६७.१८ ॥
१९. चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।
।
७.६७.१९ ॥
२०. ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।
।
७.६७.२० ॥
२१. तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।
।
७.६७.२१ ॥
२२. एवं स राजा सुमहान्हतः सबलवाहनः ।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।
।
७.६७.२२ ॥
२३. श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।
।
७.६७.२३ ॥
२४. लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ।
एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।
।
७.६७.२४ ॥
२५. शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।
विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।
।
७.६७.२५ ॥
२६. त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।
शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।
।
७.६७.२६ ।
।