उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ६२Sarga 62
१. तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ।
।
७.६२.१ ॥
२. राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ।
।
७.६२.२ ॥
३. आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ।
।
७.६२.३ ॥
४. हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।
।
७.६२.४ ॥
५. ततो ऽन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।
।
७.६२.५ ॥
६. तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।
।
७.६२.६ ॥
७. प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।
।
७.६२.७ ॥
८. को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।
।
७.६२.८ ॥
९. राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ।
।
७.६२.९ ॥
१०. भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।
।
७.६२.१० ॥
११. शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।
।
७.६२.११ ॥
१२. आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ।
।
७.६२.१२ ॥
१३. दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।
।
७.६२.१३ ॥
१४. फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
अनुभूयेदृशं दुःखमेष राघवनन्दनः ।
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।
।
७.६२.१४ ॥
१५. तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।
।
७.६२.१५ ॥
१६. राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।
निवेशय महाबाहो भरतं यद्यवेक्षसे ।
।
७.६२.१६ ॥
१७. शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।
।
७.६२.१७ ॥
१८. यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये ।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ।
।
७.६२.१८ ॥
१९. स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।
।
७.६२.१९ ॥
२०. उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।
।
७.६२.२० ॥
२१. अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।
।
७.६२.२१ ।
।