उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ६१Sarga 61
१. एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।
किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।
।
७.६१.१ ॥
२. तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।
भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।
।
७.६१.२ ॥
३. पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।
लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।
।
७.६१.३ ॥
४. ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।
सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।
।
७.६१.४ ॥
५. स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।
बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।
।
७.६१.५ ॥
६. रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।
।
७.६१.६ ॥
७. शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।
।
७.६१.७ ॥
८. त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।
प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।
।
७.६१.८ ॥
९. यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।
तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।
।
७.६१.९ ॥
१०. यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।
तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।
।
७.६१.१० ॥
११. एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।
।
७.६१.११ ॥
१२. भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।
।
७.६१.१२ ॥
१३. तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।
प्रत्युवाच महातेजा नैतदेवं भविष्यति ।
।
७.६१.१३ ॥
१४. मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।
भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।
।
७.६१.१४ ॥
१५. यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते ।
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।
।
७.६१.१५ ॥
१६. एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।
भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।
।
७.६१.१६ ॥
१७. तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।
विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।
।
७.६१.१७ ॥
१८. तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।
बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।
।
७.६१.१८ ॥
१९. तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।
मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।
।
७.६१.१९ ॥
२०. स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।
।
७.६१.२० ॥
२१. स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।
सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।
।
७.६१.२१ ॥
२२. एवंप्रभावो लवणः शूलं चैव तथाविधम् ।
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।
।
७.६१.२२ ॥
२३. बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।
अभयं याचिता वीर त्रातारं न च विद्महे ।
।
७.६१.२३ ॥
२४. ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।
त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।
तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।
।
७.६१.२४ ॥
२५. इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।
विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।
।
७.६१.२५ ।
।