उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ५९Sarga 59
१. श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः ।
जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।
।
७.५९.१ ॥
२. यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।
जरां परमिकां पुत्र भोगै रंस्ये महायशः ।
।
७.५९.२ ॥
३. न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ ।
अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ।
।
७.५९.३ ॥
४. यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।
पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ।
।
७.५९.४ ॥
५. बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।
प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ।
।
७.५९.५ ।
।
६. तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।
इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ।
।
७.५९.६ ॥
७. नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।
धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ।
।
७.५९.७ ॥
८. पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।
प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।
।
७.५९.८ ।
।
९. ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।
बहुवर्षसहस्राणि पालयामास मेदिनीम् ।
।
७.५९.९ ॥
१०. अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।
आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।
।
७.५९.१० ॥
११. न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा ।
तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।
।
७.५९.११ ॥
१२. प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।
त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।
।
७.५९.१२ ॥
१३. एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।
देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।
।
७.५९.१३ ॥
१४. राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।
प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।
।
७.५९.१४ ॥
१५. पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।
राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।
।
७.५९.१५ ॥
१६. न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।
वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।
।
७.५९.१६ ॥
१७. तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।
अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।
।
७.५९.१७ ॥
१८. ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।
त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।
।
७.५९.१८ ॥
१९. पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।
प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।
।
७.५९.१९ ॥
२०. यदुस्तु जनयामास यातुधानान्सहस्रशः ।
पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।
।
७.५९.२० ॥
२१. एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।
धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।
।
७.५९.२१ ॥
२२. एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।
अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।
।
७.५९.२२ ॥
२३. इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।
अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।
।
७.५९.२३ ।
।