Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ५७Uttara kanda, sarga 57

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ५७Sarga 57
१. तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।
।
७.५७.१ ॥
२. निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।
।
७.५७.२ ॥
३. तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
तां कथां कथयामास वसिष्ठस्य महात्मनः ।
।
७.५७.३ ॥
४. यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।
तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।
।
७.५७.४ ॥
५. पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।
नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।
।
७.५७.५ ॥
६. तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।
तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।
।
७.५७.६ ॥
७. कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।
वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।
।
७.५७.७ ॥
८. तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।
वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।
।
७.५७.८ ॥
९. एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।
कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।
।
७.५७.९ ॥
१०. दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।
तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।
।
७.५७.१० ॥
११. तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।
गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।
।
७.५७.११ ॥
१२. ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।
आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।
।
७.५७.१२ ॥
१३. सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।
वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।
।
७.५७.१३ ॥
१४. एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।
नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।
।
७.५७.१४ ॥
१५. बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।
नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।
।
७.५७.१५ ॥
१६. त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।
वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।
।
७.५७.१६ ॥
१७. एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।
ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।
।
७.५७.१७ ॥
१८. अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।
।
७.५७.१८ ॥
१९. अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।
मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।
यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ।
।
७.५७.१९ ॥
२०. एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।
मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।
।
७.५७.२० ।
।