उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ५२Sarga 52
१. तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।
प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।
।
७.५२.१ ॥
२. ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।
अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।
।
७.५२.२ ॥
३. सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।
रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।
।
७.५२.३ ॥
४. तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।
रामस्य परमोदारं पुरस्तान्समदृश्यत ।
।
७.५२.४ ॥
५. राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।
अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।
।
७.५२.५ ॥
६. स दृष्ट्वा राघवं दीनमासीनं परमासने ।
नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।
।
७.५२.६ ॥
७. जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।
उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।
।
७.५२.७ ॥
८. आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।
।
७.५२.८ ॥
९. तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।
पुनरप्यागतो वीर पादमूलमुपासितुम् ।
।
७.५२.९ ॥
१०. मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।
त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।
।
७.५२.१० ॥
११. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।
।
७.५२.११ ॥
१२. तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।
नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।
।
७.५२.१२ ॥
१३. शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि ।
लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।
।
७.५२.१३ ॥
१४. नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।
अपवादः स किल ते पुनरेष्यति राघव ।
।
७.५२.१४ ॥
१५. यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।
सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।
।
७.५२.१५ ॥
१६. स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।
त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।
।
७.५२.१६ ॥
१७. एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।
।
७.५२.१७ ॥
१८. एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।
परितोषश्च मे वीर मम कार्यानुशासने ।
।
७.५२.१८ ॥
१९. निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।
भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।
।
७.५२.१९ ।
।