उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ४९Sarga 49
१. सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।
।
७.४९.१ ॥
२. अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।
।
७.४९.२ ॥
३. अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।
पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।
।
७.४९.३ ॥
४. भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।
नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।
।
७.४९.४ ॥
५. दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।
अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।
।
७.४९.५ ॥
६. न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।
आश्रमस्याविदूरे च त्वामियं शरणं गता ।
।
७.४९.६ ॥
७. त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।
तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।
।
७.४९.७ ॥
८. तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।
तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।
।
७.४९.८ ॥
९. अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।
।
७.४९.९ ।
।
१०. तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।
।
७.४९.१० ॥
११. स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।
।
७.४९.११ ॥
१२. आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।
।
७.४९.१२ ॥
१३. तव चैव महाभागे विदितं मम तत्त्वतः ।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।
।
७.४९.१३ ॥
१४. अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।
विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।
।
७.४९.१४ ॥
१५. आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।
।
७.४९.१५ ॥
१६. इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।
।
७.४९.१६ ॥
१७. श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।
शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।
।
७.४९.१७ ॥
१८. तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।
।
७.४९.१८ ॥
१९. तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।
।
७.४९.१९ ॥
२०. स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।
अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।
।
७.४९.२० ॥
२१. तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।
।
७.४९.२१ ॥
२२. स्नुषा दशरथस्यैषा जनकस्य सुता सती ।
अपापा पतिना त्यक्ता परिपाल्या मया सदा ।
।
७.४९.२२ ॥
२३. इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि ।
गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।
।
७.४९.२३ ॥
२४. मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।
।
७.४९.२४ ।
।