Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ४७Uttara kanda, sarga 47

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ४७Sarga 47
१. अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।
।
७.४७.१ ॥
२. सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।
उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।
।
७.४७.२ ॥
३. ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।
।
७.४७.३ ॥
४. हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।
।
७.४७.४ ॥
५. श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।
।
७.४७.५ ॥
६. प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।
।
७.४७.६ ॥
७. रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।
।
७.४७.७ ॥
८. किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।
।
७.४७.८ ॥
९. शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।
तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।
।
७.४७.९ ॥
१०. वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।
अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।
।
७.४७.१० ॥
११. श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।
पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।
रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।
।
७.४७.११ ॥
१२. न तानि वचनीयानि मया देवि तवाग्रतः ।
यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।
।
७.४७.१२ ॥
१३. सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।
पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।
।
७.४७.१३ ॥
१४. आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।
राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।
।
७.४७.१४ ॥
१५. तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।
।
७.४७.१५ ॥
१६. राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।
सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।
।
७.४७.१६ ॥
१७. पादच्छायामुपागम्य सुखमस्य महात्मनः ।
उपवासपरैकाग्रा वस त्वं जनकात्मजे ।
।
७.४७.१७ ॥
१८. पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।
।
७.४७.१८ ।
।