उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ४५Sarga 45
१. तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।
।
७.४५.१ ॥
२. सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ।
।
७.४५.२ ॥
३. पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।
।
७.४५.३ ॥
४. अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।
।
७.४५.४ ॥
५. जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ।
।
७.४५.५ ॥
६. तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।
।
७.४५.६ ॥
७. प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।
।
७.४५.७ ॥
८. चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।
।
७.४५.८ ॥
९. एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।
।
७.४५.९ ॥
१०. अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।
।
७.४५.१० ॥
११. अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ।
।
७.४५.११ ॥
१२. अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।
।
७.४५.१२ ॥
१३. अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।
।
७.४५.१३ ॥
१४. अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।
।
७.४५.१४ ॥
१५. तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।
।
७.४५.१५ ॥
१६. श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।
।
७.४५.१६ ॥
१७. गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।
।
७.४५.१७ ॥
१८. तत्रैनां विजने देशे विसृज्य रघुनन्दन ।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।
।
७.४५.१८ ॥
१९. न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।
तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।
।
७.४५.१९ ॥
२०. अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।
।
७.४५.२० ॥
२१. ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ।
।
७.४५.२१ ॥
२२. मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।
।
७.४५.२२ ॥
२३. पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।
।
७.४५.२३ ॥
२४. एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।
।
७.४५.२४ ॥
२५. शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।
।
७.४५.२५ ।
।