उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ४०Sarga 40
१. तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।
।
७.४०.१ ॥
२. गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।
पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।
।
७.४०.२ ॥
३. अङ्गदं च महाबाहो प्रीत्या परमया युतः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।
।
७.४०.३ ॥
४. सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।
।
७.४०.४ ॥
५. वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।
गजं गवाक्षं गवयं शरभं च महाबलम् ।
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।
।
७.४०.५ ॥
६. ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।
ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।
।
७.४०.६ ॥
७. पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।
।
७.४०.७ ॥
८. एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।
विभीषणमुवाचाथ रामो मधुरया गिरा ।
।
७.४०.८ ॥
९. लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।
पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।
।
७.४०.९ ॥
१०. मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।
।
७.४०.१० ॥
११. अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।
।
७.४०.११ ॥
१२. रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।
।
७.४०.१२ ॥
१३. तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।
।
७.४०.१३ ॥
१४. तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् ।
हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।
।
७.४०.१४ ॥
१५. स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।
।
७.४०.१५ ॥
१६. वायद्रामकथा वीर चरिष्यति महीतले ।
तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।
।
७.४०.१६ ॥
१७. यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।
तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।
।
७.४०.१७ ॥
१८. तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।
।
७.४०.१८ ॥
१९. एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।
।
७.४०.१९ ॥
२०. एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ।
तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।
।
७.४०.२० ॥
२१. लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।
।
७.४०.२१ ।
।
२२. लोके च मामिका ।
एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।
नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।
।
७.४०.२२ ॥
२३. ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।
वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।
।
७.४०.२३ ॥
२४. तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।
।
७.४०.२४ ॥
२५. श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।
।
७.४०.२५ ॥
२६. सुग्रीवः स च रामेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।
।
७.४०.२६ ॥
२७. सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।
।
७.४०.२७ ॥
२८. कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।
।
७.४०.२८ ॥
२९. ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।
।
७.४०.२९ ॥
३०. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।
।
४० ।
।