Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ४Uttara kanda, sarga 4

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ४Sarga 4
१. श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।
कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ।
।
७.४.१ ॥
२. ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।
तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ।
।
७.४.२ ॥
३. भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।
श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ।
।
७.४.३ ॥
४. पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।
इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ।
।
७.४.४ ॥
५. रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ।
।
७.४.५ ॥
६. क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः ।
अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।
।
७.४.६ ॥
७. एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ।
।
७.४.७ ॥
८. राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ।
।
७.४.८ ॥
९. प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।
तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ।
।
७.४.९ ॥
१०. ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।
।
७.४.१० ॥
११. प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ।
।
७.४.११ ॥
१२. रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।
भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ।
।
७.४.१२ ॥
१३. रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।
जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ।
।
७.४.१३ ॥
१४. तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।
मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ।
।
७.४.१४ ॥
१५. प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।
हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ।
।
७.४.१५ ॥
१६. स कालभगिनीं कन्यां भयां नाम भयावहाम् ।
उदावहदमेयात्मा स्वयमेव महामतिः ।
।
७.४.१६ ॥
१७. स तस्यां जनयामास हेती राक्षसपुङ्गवः ।
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ।
।
७.४.१७ ॥
१८. विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।
व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ।
।
७.४.१८ ॥
१९. स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ।
।
७.४.१९ ॥
२०. सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः ।
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ।
।
७.४.२० ॥
२१. अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।
।
७.४.२१ ॥
२२. सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।
रमते स्म तया सार्धं पौलोम्या मघवानिव ।
।
७.४.२२ ॥
२३. केनचित्त्वथ कालेन राम सालकटङ्कटा ।
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ।
।
७.४.२३ ॥
२४. ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ।
।
७.४.२४ ॥
२५. समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।
रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ।
।
७.४.२५ ॥
२६. उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।
निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ।
।
७.४.२६ ॥
२७. ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।
वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ।
।
७.४.२७ ॥
२८. अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।
कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ।
।
७.४.२८ ॥
२९. तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।
अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ।
।
७.४.२९ ॥
३०. पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।
उमयापि वरो दत्तो राक्षसानां नृपात्मज ।
।
७.४.३० ॥
३१. सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।
सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ।
।
७.४.३१ ॥
३२. ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।
चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ।
।
७.४.३२ ।
।