Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग ३Uttara kanda, sarga 3

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग ३Sarga 3
१. अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।
अचिरेणैव कालेन पितेव तपसि स्थितः ।
।
७.३.१ ॥
२. सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।
सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।
।
७.३.२ ॥
३. ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।
ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।
।
७.३.३ ॥
४. प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।
प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।
।
७.३.४ ॥
५. मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।
स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।
।
७.३.५ ॥
६. जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।
तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।
।
७.३.६ ॥
७. दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।
नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।
।
७.३.७ ॥
८. यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।
।
७.३.८ ॥
९. स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।
अवर्धताहुतिहुतो महातेजा यथानलः ।
।
७.३.९ ॥
१०. तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।
चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।
।
७.३.१० ॥
११. स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।
।
७.३.११ ॥
१२. पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।
जलाशी मारुताहारो निराहारस्तथैव च ।
।
७.३.१२ ॥
१३. एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।
।
७.३.१३ ॥
१४. गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।
परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।
वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।
।
७.३.१४ ॥
१५. अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।
भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।
।
७.३.१५ ॥
१६. अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।
।
७.३.१६ ॥
१७. अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।
।
७.३.१७ ॥
१८. यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।
तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।
शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।
।
७.३.१८ ॥
१९. एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।
।
७.३.१९ ॥
२०. स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।
कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।
।
७.३.२० ॥
२१. इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।
।
७.३.२१ ॥
२२. गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।
वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।
निवासनं न मे देवो विदधे स प्रजापतिः ।
।
७.३.२२ ॥
२३. भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।
तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।
।
७.३.२३ ॥
२४. न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ।
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।
।
७.३.२४ ॥
२५. वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ।
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।
।
७.३.२५ ॥
२६. तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।
।
७.३.२६ ॥
२७. राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।
तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।
।
७.३.२७ ॥
२८. हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।
रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।
।
७.३.२८ ॥
२९. राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।
।
७.३.२९ ॥
३०. शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते ।
स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।
।
७.३.३० ॥
३१. निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् ।
एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।
।
७.३.३१ ॥
३२. निवासयामास तदा लङ्कां पर्वतमूर्धनि ।
नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।
।
७.३.३२ ॥
३३. अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।
।
७.३.३३ ॥
३४. स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।
समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।
।
७.३.३४ ॥
३५. काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।
अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।
।
७.३.३५ ॥
३६. स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।
गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।
।
७.३.३६ ।
।