Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग २४Uttara kanda, sarga 24

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग २४Sarga 24
१. निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।
जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।
।
७.२४.१ ॥
२. दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।
हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।
।
७.२४.२ ॥
३. एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।
यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।
।
७.२४.३ ॥
४. ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।
।
७.२४.४ ॥
५. ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।
आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।
।
७.२४.५ ॥
६. नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।
दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।
।
७.२४.६ ॥
७. दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।
पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।
।
७.२४.७ ॥
८. रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।
स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।
।
७.२४.८ ॥
९. शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।
तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।
।
७.२४.९ ॥
१०. अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।
दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।
।
७.२४.१० ॥
११. दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।
काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।
।
७.२४.११ ॥
१२. काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।
इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च ।
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।
।
७.२४.१२ ॥
१३. कथं नु खलु मे पुत्रो भविष्यति मया विना ।
कथं माता कथं भ्राता निमग्नाः शोकसागरे ।
।
७.२४.१३ ।
॥
१४. हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।
मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।
।
७.२४.१४ ॥
१५. किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
।
७.२४.१५ ॥
१६. एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।
न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।
।
७.२४.१६ ॥
१७. अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।
यद्दुर्बला बलवता भर्तारो रावणेन नः ।
।
७.२४.१७ ॥
१८. सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।
अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।
।
७.२४.१८ ॥
१९. अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।
सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।
।
७.२४.१९ ॥
२०. इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।
यस्मादेष परक्यासु रमते राक्षसाधमः ।
।
७.२४.२० ॥
२१. तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।
सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।
।
७.२४.२१ ॥
२२. नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।
शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।
।
७.२४.२२ ॥
२३. पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।
एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।
।
७.२४.२३ ॥
२४. एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।
सहसा पतिता भूमौ भगिनी रावणस्य सा ।
।
७.२४.२४ ॥
२५. तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।
अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।
।
७.२४.२५ ॥
२६. सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।
कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।
।
७.२४.२६ ॥
२७. एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।
कालकेया इति ख्याताः सहस्राणि चतुर्दश ।
।
७.२४.२७ ॥
२८. प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।
।
७.२४.२८ ॥
२९. सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।
त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।
।
७.२४.२९ ॥
३०. राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।
स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।
।
७.२४.३० ॥
३१. एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।
।
७.२४.३१ ॥
३२. अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।
।
७.२४.३२ ॥
३३. युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।
नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।
।
७.२४.३३ ॥
३४. जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।
तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।
।
७.२४.३४ ॥
३५. अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।
भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।
।
७.२४.३५ ॥
३६. चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।
।
७.२४.३६ ॥
३७. तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।
भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।
।
७.२४.३७ ॥
३८. शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।
दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।
।
७.२४.३८ ॥
३९. तत्र ते वचनं शूरः करिष्यति सदा खरः ।
रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।
।
७.२४.३९ ॥
४०. एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।
।
७.२४.४० ॥
४१. स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।
आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।
।
७.२४.४१ ॥
४२. स तत्र कारयामास राज्यं निहतकण्टकम् ।
सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।
।
७.२४.४२ ।
।