उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग १३Sarga 13
१. अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ।
।
७.१३.१ ॥
२. ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः ।
निद्रा मां बाधते राजन्कारयस्व ममालयम् ।
।
७.१३.२ ॥
३. विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।
।
७.१३.३ ॥
४. दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।
।
७.१३.४ ॥
५. वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।
दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।
।
७.१३.५ ॥
६. मनोहरं सर्वसुखं कारयामास राक्षसः ।
सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ।
।
७.१३.६ ॥
७. तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।
बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ।
।
७.१३.७ ॥
८. निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।
देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ।
।
७.१३.८ ॥
९. उद्यानानि च चित्राणि नन्दनादीनि यानि च ।
तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ।
।
७.१३.९ ॥
१०. नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।
नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ।
।
७.१३.१० ॥
११. तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।
।
७.१३.११ ॥
१२. सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।
लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ।
।
७.१३.१२ ॥
१३. स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ।
।
७.१३.१३ ॥
१४. पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।
सभायां दर्शयामास तमासीनं दशाननम् ।
।
७.१३.१४ ॥
१५. स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।
जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ।
।
७.१३.१५ ॥
१६. तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।
उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ।
।
७.१३.१६ ॥
१७. राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।
उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ।
।
७.१३.१७ ॥
१८. साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ।
।
७.१३.१८ ॥
१९. दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।
देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ।
।
७.१३.१९ ॥
२०. निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप ।
अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।
।
७.१३.२० ॥
२१. अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।
रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ।
।
७.१३.२१ ॥
२२. तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।
सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।
।
७.१३.२२ ॥
२३. का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।
रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।
।
७.१३.२३ ॥
२४. देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।
रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ।
।
७.१३.२४ ॥
२५. ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।
तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ।
।
७.१३.२५ ॥
२६. समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।
।
७.१३.२६ ॥
२७. पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।
प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ।
।
७.१३.२७ ॥
२८. मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।
तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ।
।
७.१३.२८ ॥
२९. व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।
तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।
।
७.१३.२९ ॥
३०. तपसा निर्जितश्चैव सखा भव ममानघ ।
देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ।
।
७.१३.३० ॥
३१. एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।
एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ।
।
७.१३.३१ ॥
३२. आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ।
।
७.१३.३२ ॥
३३. तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।
चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ।
।
७.१३.३३ ॥
३४. एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।
हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ।
।
७.१३.३४ ॥
३५. विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।
नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ।
।
७.१३.३५ ॥
३६. हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।
महेश्वरसखित्वं तु मूढ श्रावयते किल ।
।
७.१३.३६ ॥
३७. न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।
यदेतावन्मया कालं दूत तस्य तु मर्षितम् ।
।
७.१३.३७ ॥
३८. न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते ।
तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।
।
७.१३.३८ ॥
३९. त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।
।
७.१३.३९ ॥
४०. एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ।
।
७.१३.४० ॥
४१. एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ।
।
७.१३.४१ ॥
४२. एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ।
।
७.१३.४२ ।
।