Sanatan Gyan
सनातन ज्ञानSanatan Gyan

उत्तर काण्ड, सर्ग १०४Uttara kanda, sarga 104

उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग १०४Sarga 104
१. शृणु राजन्महासत्व यदर्थमहमागतः ।
पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।
।
७.१०४.१ ॥
२. तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।
मायासम्भावितो वीर कालः सर्वसमाहरः ।
।
७.१०४.२ ॥
३. पितामहश्च भगवानाह लोकपतिः प्रभुः ।
समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।
।
७.१०४.३ ॥
४. सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।
महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।
।
७.१०४.४ ॥
५. भोगवन्तं ततो नागमनन्तमुदकेशयम् ।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।
।
७.१०४.५ ॥
६. मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।
इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।
।
७.१०४.६ ॥
७. पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।
।
७.१०४.७ ॥
८. सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।
।
७.१०४.८ ॥
९. ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।
।
७.१०४.९ ॥
१०. अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।
।
७.१०४.१० ॥
११. स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।
रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।
।
७.१०४.११ ॥
१२. दश वर्षसहस्राणि दश वर्षशतानि च ।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।
।
७.१०४.१२ ॥
१३. स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।
कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।
।
७.१०४.१३ ॥
१४. यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।
वस वा वीर भद्रं त एवमाह पितामहः ।
।
७.१०४.१४ ॥
१५. अथ वा विजिगीषा ते सुरलोकाय राघव ।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।
।
७.१०४.१५ ॥
१६. श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।
।
७.१०४.१६ ॥
१७. श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।
प्रीतिर्हि महती जाता तवागमनसम्भवा ।
।
७.१०४.१७ ॥
१८. त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।
भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।
।
७.१०४.१८ ॥
१९. हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।
स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।
।
७.१०४.१९ ।
।