उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग १०३Sarga 103
१. कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत् ।
।
७.१०३.१ ॥
२. सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।
मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ।
।
७.१०३.२ ॥
३. दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।
रामं दिदृक्षुरायातः कार्येण हि महाबल ।
।
७.१०३.३ ॥
४. तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।
न्यवेदयत रामाय तापसं तं समागतम् ।
।
७.१०३.४ ॥
५. जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ।
।
७.१०३.५ ॥
६. तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ।
।
७.१०३.६ ॥
७. सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ।
।
७.१०३.७ ॥
८. सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ।
।
७.१०३.८ ॥
९. तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ।
।
७.१०३.९ ॥
१०. पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः ।
।
७.१०३.१० ॥
११. तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ।
।
७.१०३.११ ॥
१२. चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।
।
७.१०३.१२ ॥
१३. यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ।
।
७.१०३.१३ ॥
१४. स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ।
।
७.१०३.१४ ॥
१५. स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ।
।
७.१०३.१५ ॥
१६. ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ।
।
७.१०३.१६ ॥
१७. यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ।
।
७.१०३.१७ ।
।