उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग १०२Sarga 102
१. तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।
।
७.१०२.१ ॥
२. इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।
।
७.१०२.२ ॥
३. इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।
।
७.१०२.३ ॥
४. न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।
।
७.१०२.४ ॥
५. तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ।
।
७.१०२.५ ॥
६. निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।
।
७.१०२.६ ॥
७. तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।
।
७.१०२.७ ॥
८. अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।
।
७.१०२.८ ॥
९. चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।
।
७.१०२.९ ॥
१०. ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।
।
७.१०२.१० ॥
११. अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।
।
७.१०२.११ ॥
१२. अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।
।
७.१०२.१२ ॥
१३. लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।
।
७.१०२.१३ ॥
१४. भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ।
।
७.१०२.१४ ॥
१५. उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।
।
७.१०२.१५ ॥
१६. एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।
।
७.१०२.१६ ॥
१७. विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।
।
७.१०२.१७ ।
।