उत्तर काण्डUttara kandaरामायणRamayanaरामRamaसर्ग १०१Sarga 101
१. श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।
।
७.१०१.१ ॥
२. स निर्ययौ जनौघेन महता केकयाधिपः ।
त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।
।
७.१०१.२ ॥
३. भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।
।
७.१०१.३ ॥
४. श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।
योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।
।
७.१०१.४ ॥
५. ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।
।
७.१०१.५ ॥
६. खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।
नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।
।
७.१०१.६ ॥
७. ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।
संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।
।
७.१०१.७ ॥
८. ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।
।
७.१०१.८ ॥
९. तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।
निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।
।
७.१०१.९ ॥
१०. हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।
।
७.१०१.१० ॥
११. तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।
गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।
।
७.१०१.११ ॥
१२. धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।
अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।
।
७.१०१.१२ ॥
१३. उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।
उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।
।
७.१०१.१३ ॥
१४. उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।
गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।
।
७.१०१.१४ ॥
१५. शोभिते शोभनीयैश्च देवायतनविस्तरैः ।
तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।
।
७.१०१.१५ ॥
१६. निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।
पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।
।
७.१०१.१६ ॥
१७. सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।
।
७.१०१.१७ ॥
१८. शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।
निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।
।
७.१०१.१८ ।
।