सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ६७Sarga 67
१. एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
सीताया भाषितं सर्वं न्यवेदयत राघवे ।
।
५.६७.१ ।
।
।
।
२. इदमुक्तवती देवी जानकी पुरुषर्षभ ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।
।
५.६७.२ ।
।
।
।
३. सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।
वायसः सहसोत्पत्य विरराद स्तनान्तरे ।
।
५.६७.३ ।
।
।
।
४. पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।
।
५.६७.४ ।
।
।
।
५. पुनः पुनरुपागम्य विरराद भृशं किल ।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।
।
५.६७.५ ।
।
।
।
६. वायसेन च तेनैव सततं बाध्यमानया ।
बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।
।
५.६७.६ ।
।
।
।
७. तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।
।
५.६७.७ ।
।
।
।
८. नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।
।
५.६७.८ ।
।
।
।
९. निरीक्षमाणः सहसा वायसं समवैक्षथाः ।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।
।
५.६७.९ ।
।
।
।
१०. सुतः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।
।
५.६७.१० ।
।
।
।
११. ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।
।
५.६७.११ ।
।
।
।
१२. स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।
।
५.६७.१२ ।
।
।
।
१३. क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।
।
५.६७.१३ ।
।
।
।
१४. स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।
त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।
।
५.६७.१४ ।
।
।
।
१५. पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।
स तं निपतितं भूमौ शरण्यः शरणागतम् ।
।
५.६७.१५ ।
।
।
।
१६. वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।
।
५.६७.१६ ।
।
।
।
१७. मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
।
५.६७.१७ ।
।
।
।
१८. राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।
।
५.६७.१८ ।
।
।
।
१९. एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।
।
५.६७.१९ ।
।
।
।
२०. न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।
न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।
।
५.६७.२० ।
।
।
।
२१. तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।
।
५.६७.२१ ।
।
।
।
२२. भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।
स किमर्थं नरवरो न मां रक्षति राघवः ।
।
५.६७.२२ ।
।
।
।
२३. शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।
।
५.६७.२३ ।
।
।
।
२४. ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।
।
५.६७.२४ ।
।
।
।
२५. वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।
।
५.६७.२५ ।
।
।
।
२६. त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।
।
५.६७.२६ ।
।
।
।
२७. कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।
इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।
।
५.६७.२७ ।
।
।
।
२८. तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।
।
५.६७.२८ ।
।
।
।
२९. हत्वा च समरे रौद्र रावण सहबान्धवम् ।
राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।
।
५.६७.२९ ।
।
।
।
३०. यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।
।
५.६७.३० ।
।
।
।
३१. सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।
।
५.६७.३१ ।
।
।
।
३२. प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।
शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।
।
५.६७.३२ ।
।
।
।
३३. गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।
विवर्धमानं च हि मामुवाच जनकात्मजा ।
।
५.६७.३३ ।
।
।
।
३४. अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।
।
५.६७.३४ ।
।
।
।
३५. हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।
।
५.६७.३५ ।
।
।
।
३६. यथा च स महाबाहुर्मां तारयति राघवः ।
असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।
।
५.६७.३६ ।
।
।
।
३७. इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।
।
५.६७.३७ ।
।
।
।
३८. एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ।
।
५.६७.३८ ।
।