सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ६५Sarga 65
१. ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।
।
५.६५.१ ।
।
।
।
२. युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।
।
५.६५.२ ।
।
।
।
३. रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ।
एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।
।
५.६५.३ ।
।
।
।
४. वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।
।
५.६५.४ ।
।
।
।
५. क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।
।
५.६५.५ ।
।
।
।
६. रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।
।
५.६५.६ ।
।
।
।
७. श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।
।
५.६५.७ ।
।
।
।
८. समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।
।
५.६५.८ ।
।
।
।
९. तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।
।
५.६५.९ ।
।
।
।
।
।
१०. तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।
संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।
।
५.६५.१० ।
।
।
।
११. दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।
।
५.६५.११ ।
।
।
।
१२. दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ।
।
५.६५.१२ ।
।
।
।
१३. रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ।
।
५.६५.१३ ।
।
।
।
१४. अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ।
।
५.६५.१४ ।
।
।
।
१५. इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।
सा मया नरशार्दूल विश्वासमुपपादिता ।
।
५.६५.१५ ।
।
।
।
१६. ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।
।
५.६५.१६ ।
।
।
।
१७. नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।
।
५.६५.१७ ।
।
।
।
१८. एवं मया महाभागा दृष्टा जनकनन्दिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।
।
५.६५.१८ ।
।
।
।
१९. अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।
।
५.६५.१९ ।
।
।
।
२०. विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद् दृष्टमिति मामाह जानकी ।
।
५.६५.२० ।
।
।
।
२१. अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ।
।
५.६५.२१ ।
।
।
।
२२. एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।
।
५.६५.२२ ।
।
।
।
२३. त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।
।
५.६५.२३ ।
।
।
।
२४. एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।
जीवितं धारयिष्यामि मासं दशरथात्मज ।
ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ।
।
५.६५.२४ ।
।
।
।
२५. इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।
।
५.६५.२५ ।
।
।
।
२६. एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।
सर्वथा सागरजले सन्तारः प्रविधीयताम् ।
।
५.६५.२६ ।
।
।
।
२७. तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ।
।
५.६५.२७ ।
।