Sanatan Gyan
सनातन ज्ञानSanatan Gyan

सुन्दर काण्ड, सर्ग ५९Sundara kanda, sarga 59

सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ५९Sarga 59
१. एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।
भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।
।
५.५९.१ ।
।
।
।
२. सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।
शीलमासाद्य सीताया मम च प्रवणं मनः ।
।
५.५९.२ ।
।
।
।
३. तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।
सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।
।
५.५९.३ ।
।
।
।
४. न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।
जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ।
।
५.५९.४ ।
।
।
।
५. जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।
अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।
।
५.५९.५ ।
।
।
।
६. न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।
।
५.५९.६ ।
।
।
।
७. अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।
तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ।
।
५.५९.७ ।
।
।
।
८. किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।
।
५.५९.८ ।
।
।
।
९. अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।
सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।
।
५.५९.९ ।
।
।
।
१०. ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।
यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ।
।
५.५९.१० ।
।
।
।
११. तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।
भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ।
।
५.५९.११ ।
।
।
।
१२. मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।
देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ।
।
५.५९.१२ ।
।
।
।
१३. सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ।
।
५.५९.१३ ।
।
।
।
१४. सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।
अलमेको विनाशाय वीरो वालिसुतः कपिः ।
।
५.५९.१४ ।
।
।
।
१५. पनसस्योरुवेगेन नीलस्य च महात्मनः ।
मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ।
।
५.५९.१५ ।
।
।
।
१६. सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।
।
५.५९.१६ ।
।
।
।
१७. अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।
।
५.५९.१७ ।
।
।
।
१८. पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ।
।
५.५९.१८ ।
।
।
।
१९. अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।
।
५.५९.१९ ।
।
।
।
२०. करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।
।
५.५९.२० ।
।
।
।
२१. एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।
।
५.५९.२१ ।
।
।
।
२२. मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ।
।
५.५९.२२ ।
।
।
।
२३. जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
।
५.५९.२३ ।
।
।
।
२४. अहं कोसलराजस्य दासः पवनसम्भवः ।
हनुमानिति सर्वत्र नाम विश्रावितं मया ।
।
५.५९.२४ ।
।
।
।
२५. अशोकवनिकामध्ये रावणस्य दुरात्मनः ।
अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ।
।
५.५९.२५ ।
।
।
।
२६. राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।
अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।
।
५.५९.२६ ।
।
।
।
२७. पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ।
।
५.५९.२७ ।
।
२८. वृता चन्द्रलेखेव निष्प्रभा ।
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ।
।
५.५९.२८ ।
।
।
।
२९. तदेकवासः संवीता रजोध्वस्ता तथैव च ।
शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ।
।
५.५९.२९ ।
।
।
।
३०. सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ।
।
५.५९.३० ।
।
।
।
३१. एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
।
५.५९.३१ ।
।
।
।
३२. रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ।
।
५.५९.३२ ।
।
।
।
३३. ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।
।
५.५९.३३ ।
।
।
।
३४. नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।
यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।
।
५.५९.३४ ।
।
।
।
३५. सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।
।
५.५९.३५ ।
।
।
।
३६. एवमास्ते महाभागा सीता शोकपरायणा ।
यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ।
।
५.५९.३६ ।
।