Sanatan Gyan
सनातन ज्ञानSanatan Gyan

सुन्दर काण्ड, सर्ग ५१Sundara kanda, sarga 51

सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ५१Sarga 51
१. तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।
।
५.५१.१।
।
।
।
२. अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।
।
५.५१.२।
।
।
।
३. भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।
।
५.५१.३।
।
।
।
४. राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।
।
५.५१.४।
।
।
।
५. ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।
पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।
।
५.५१.५।
।
।
।
६. लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।
।
५.५१.६।
।
।
।
७. तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।
।
५.५१.७।
।
।
।
८. स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।
ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।
।
५.५१.८।
।
।
।
९. तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।
।
५.५१.९।
।
।
।
१०. ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।
।
५.५१.१०।
।
।
।
११. त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।
।
५.५१.११।
।
।
।
१२. स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।
।
५.५१.१२।
।
।
।
१३. तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।
।
५.५१.१३।
।
।
।
१४. वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।
।
५.५१.१४।
।
।
।
१५. अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।
।
५.५१.१५।
।
।
।
१६. समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।
।
५.५१.१६।
।
।
।
१७. तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।
।
५.५१.१७।
।
।
।
१८. न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।
।
५.५१.१८।
।
।
।
१९. कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।
।
५.५१.१९।
।
।
।
२०. न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।
।
५.५१.२०।
।
।
।
२१. तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।
।
५.५१.२१।
।
।
।
२२. दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।
।
५.५१.२२।
।
।
।
२३. लक्षितेयं मया सीता तथा शोकपायणा ।
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।
।
५.५१.२३।
।
।
।
२४. नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।
।
५.५१.२४।
।
।
।
२५. तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।
न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।
।
।
५.५१.२५।
।
।
।
२६. अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।
।
५.५१.२६।
।
।
।
२७. सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।
न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।
।
५.५१.२७।
।
।
।
२८. न तु धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।
।
५.५१.२८।
।
।
।
२९. प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।
।
५.५१.२९।
।
।
।
३०. जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।
।
५.५१.३०।
।
।
।
३१. कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।
।
५.५१.३१।
।
।
।
३२. रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।
।
५.५१.३२।
।
।
।
३३. अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।
।
५.५१.३३।
।
।
।
३४. यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।
।
५.५१.३४।
।
।
।
३५. तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।
।
५.५१.३५।
।
।
।
३६. सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।
।
५.५१.३६।
।
।
।
३७. स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातऽन् सुतान् हितान् ।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।
।
५.५१.३७।
।
।
।
३८. सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दृतस्य वानरस्य विशेषतः ।
।
५.५१.३८।
।
।
।
३९. सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।
।
५.५१.३९।
।
।
।
४०. देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।
विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।
।
५.५१.४०।
।
।
।
४१. सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।
।
५.५१.४१।
।
।
।
४२. सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।
यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ।
।
५.५१.४२।
।
।
।
४३. सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।
।
५.५१.४३।
।
।
।
४४. देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।
।
५.५१.४४।
।
।
।
४५. ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।
।
५.५१.४५।
।
।
।
४६. स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ।
।
५.५१.४६।
।