सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ४८Sarga 48
१. ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे ।
मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।
।
५.४८.१।
।
।
।
२. त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनऽञ्चितास्त्रः ।
।
५.४८.२।
।
।
।
३. तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।
न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।
।
५.४८.३।
।
।
।
४. न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः ।
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।
देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।
।
५.४८.४।
।
।
।
५. न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।
न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।
।
५.४८.५।
।
।
।
६. ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।
।
५.४८.६।
।
।
।
७. निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।
।
५.४८.७।
।
।
।
८. बलानि सुसमृद्धानि साश्वनागरथानि च ।
सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।
।
५.४८.८।
।
।
।
९. न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।
।
५.४८.९।
।
।
।
१०. इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।
।
५.४८.१०।
।
।
।
११. बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।
।
५.४८.११।
।
।
।
१२. न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।
।
५.४८.१२।
।
।
।
१३. तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।
स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।
।
५.४८.१३।
।
।
।
१४. न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ।
।
५.४८.१४।
।
।
।
१५. नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् ।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।
।
५.४८.१५।
।
।
।
१६. ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।
चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।
।
५.४८.१६।
।
।
।
१७. ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः ।
युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।
।
५.४८.१७।
।
।
।
१८. श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।
निर्जगाम महातेजाः समुद्र इव पर्वसु ।
।
५.४८.१८।
।
।
।
१९. स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।
रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।
।
५.४८.१९।
।
।
।
२०. स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः ।
रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।
।
५.४८.२०।
।
।
।
२१. स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।
निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।
।
५.४८.२१।
।
।
।
२२. सुमहच्चापमादाय शितशल्यांश्च सायकान् ।
हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।
।
५.४८.२२।
।
।
।
२३. तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।
दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।
।
५.४८.२३।
।
।
।
२४. समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।
नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।
।
५.४८.२४।
।
।
।
२५. आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।
विननाद महानादं व्यवर्धत च वेगवान् ।
।
५.४८.२५।
।
।
।
२६. इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।
।
५.४८.२६।
।
।
।
२७. ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।
कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।
।
५.४८.२७।
।
।
।
२८. स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।
शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।
।
५.४८.२८।
।
।
।
२९. ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।
मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।
।
५.४८.२९।
।
।
।
३०. ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।
।
५.४८.३०।
।
।
।
३१. शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।
हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसंग्रहम् ।
।
५.४८.३१।
।
।
।
३२. शराणआमग्रतस्तस्य पुनः समभिवर्तत ।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।
।
५.४८.३२।
।
।
।
३३. तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।
।
५.४८.३३।
।
।
।
३४. हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् ।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।
।
५.४८.३४।
।
।
।
३५. ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।
जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।
।
५.४८.३५।
।
।
।
३६. ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये ।
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।
।
५.४८.३६।
।
।
।
३७. ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः ।
सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।
।
५.४८.३७।
।
।
।
३८. अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।
निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।
।
५.४८.३८।
।
।
।
३९. तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः ।
अभवन्निर्विचेष्टश्च पपात च महीतले ।
।
५.४८.३९।
।
।
।
४०. ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः ।
पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।
।
५.४८.४०।
।
।
।
४१. ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।
हनूमांश्चिन्तयामास वरदानं पितामहात् ।
।
५.४८.४१।
।
।
।
४२. न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।
इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।
।
५.४८.४२।
।
।
।
४३. स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।
विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।
।
५.४८.४३।
।
।
।
४४. अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।
।
५.४८.४४।
।
।
।
४५. ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः ।
राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।
।
५.४८.४५।
।
।
।
४६. स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।
।
५.४८.४६।
।
।
।
४७. ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।
बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।
।
५.४८.४७।
।
।
।
४८. स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ।
कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ।
।
५.४८.४८।
।
।
।
४९. स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् ।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।
।
५.४८.४९।
।
।
।
५०. अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।
विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।
।
५.४८.५०।
।
।
।
५१. अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।
पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।
।
५.४८.५१।
।
।
।
५२. अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत ।
कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।
।
५.४८.५२।
।
।
।
५३. हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।
समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।
।
५.४८.५३।
।
।
।
५४. अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।
व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।
।
५.४८.५४।
।
।
।
५५. तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।
।
५.४८.५५।
।
।
।
५६. को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः ।
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।
।
५.४८.५६।
।
।
।
५७. हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।
राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।
।
५.४८.५७।
।
।
।
५८. अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।
।
५.४८.५८।
।
।
।
५९. स ददर्श महातेजा रावणः कपिसत्तमम् ।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।
।
५.४८.५९।
।
।
।
६०. राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।
तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।
।
५.४८.६०।
।
।
।
६१. स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।
।
५.४८.६१।
।
।
।
६२. यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ।
।
५.४८.६२।
।