सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ४२Sarga 42
१. ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।
।
५.४२.१।
।
।
।
२. विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।
।
५.४२.२।
।
।
।
३. ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।
।
५.४२.३।
।
।
।
४. स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ।
।
५.४२.४।
।
।
।
५. ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।
।
५.४२.५।
।
।
।
६. को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ।
।
५.४२.६।
।
।
।
७. आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापाङ्गे त्वया किं कृतवानयम् ।
।
५.४२.७।
।
।
।
८. अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।
।
५.४२.८।
।
।
।
९. यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।
अहिरेव ह्यहेः पादान् विजानाति न संशयः ।
।
५.४२.९।
।
।
।
१०. अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।
।
५.४२.१०।
।
।
।
११. वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ।
।
५.४२.११।
।
।
।
१२. रावणस्य समीपे तु राक्षस्यो विकृताननाः ।
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।
।
५.४२.१२।
।
।
।
१३. अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।
सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ।
।
५.४२.१३।
।
।
।
१४. न च तं जानकी सीता हरिं हरिणलोचना ।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ।
।
५.४२.१४।
।
।
।
१५. वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।
प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ।
।
५.४२.१५।
।
।
।
१६. तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।
।
५.४२.१६।
।
।
।
१७. न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
यत्र सा जानकी सीता स तेन न विनाशितः ।
।
५.४२.१७।
।
।
।
१८. जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।
अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ।
।
५.४२.१८।
।
।
।
१९. चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।
प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ।
।
५.४२.१९।
।
।
।
२०. तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।
सीता संभाषिता येन तद्वनं च विनाशितम् ।
।
५.४२.२०।
।
।
।
२१. मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।
कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ।
।
५.४२.२१।
।
।
।
२२. राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ।
।
५.४२.२२।
।
।
।
२३. तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।
।
५.४२.२३।
।
।
।
२४. आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ।
।
५.४२.२४।
।
।
।
२५. तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।
।
५.४२.२५।
।
।
।
२६. निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।
महोदरा महादंष्ट्रा घोररूपा महाबलाः ।
युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।
।
५.४२.२६।
।
।
।
२७. ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।
अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ।
।
५.४२.२७।
।
।
।
२८. ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ।
।
५.४२.२८।
।
।
।
२९. मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ।
।
५.४२.२९।
।
।
।
३०. हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।
क्षितावाविध्य लांगूलं ननाद च महास्वनम् ।
।
५.४२.३०।
।
।
।
३१. स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।
।
५.४२.३१।
।
।
।
३२. तस्यास्फोटितशब्देन महता सानुनादिना ।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।
।
५.४२.३२।
।
।
।
३३. जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
।
५.४२.३३।
।
।
।
३४. दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।
।
५.४२.३४।
।
।
।
३५. न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।
।
५.४२.३५।
।
।
।
३६. अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।
।
५.४२.३६।
।
।
।
३७. तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।
।
५.४२.३७।
।
।
।
३८. स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।
।
५.४२.३८।
।
।
।
३९. स तैः परिवृतः शूरैः सर्वतः स महाबलः ।
आससादायसं भीमं परिघं तोरणाश्रितम्।
स तं परिघमादय जघान रजनीचरान् ।
।
५.४२.३९।
।
।
।
४०. स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।
।
५.४२.४०।
।
।
।
४१. स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।
युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।
।
५.४२.४१।
।
।
।
४२. ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।
निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ।
।
५.४२.४२।
।
।
।
४३. स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ।
।
५.४२.४३।
।