सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ३९Sarga 39
१. मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।
।
५.३९.१।
।
।
।
२. मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।
वीरो जनन्या मम च राज्ञो दशरथस्य च ।
।
५.३९.२।
।
।
।
३. स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।
अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।
।
५.३९.३।
।
।
।
४. त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।
तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।
।
५.३९.४।
।
।
।
५. स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।
शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।
।
५.३९.५।
।
।
।
६. ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।
।
५.३९.६।
।
।
।
७. कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।
।
५.३९.७।
।
।
।
८. सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।
।
५.३९.८।
।
।
।
९. यथा स च महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।
।
५.३९.९।
।
।
।
१०. जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।
तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।
।
५.३९.१०।
।
।
।
११. नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।
।
५.३९.११।
।
।
।
१२. मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।
पराक्रमविधिं वीरो विधिवत् संविधास्यति ।
।
५.३९.१२।
।
।
।
१३. सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।
।
५.३९.१३।
।
।
।
१४. क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।
।
५.३९.१४।
।
।
।
१५. नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।
।
५.३९.१५।
।
।
।
१६. अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।
सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।
।
५.३९.१६।
।
।
।
१७. स हि सागरपर्यन्तां महीं शासितुमीहते ।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।
।
५.३९.१७।
।
।
।
१८. तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।
जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।
।
५.३९.१८।
।
।
।
१९. ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।
।
५.३९.१९।
।
।
।
२०. यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।
।
५.३९.२०।
।
।
।
२१. मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।
।
५.३९.२१।
।
।
।
२२. गते हि हरिशार्दूल पुनरागमनाय तु ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।
।
५.३९.२२।
।
।
।
२३. तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।
।
५.३९.२३।
।
।
।
२४. अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।
।
५.३९.२४।
।
।
।
२५. कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।
।
५.३९.२५।
।
।
।
२६. त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।
।
५.३९.२६।
।
।
।
२७. तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।
।
५.३९.२७।
।
।
।
२८. काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।
।
५.३९.२८।
।
।
।
२९. बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।
विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।
।
५.३९.२९।
।
।
।
३०. शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।
।
५.३९.३०।
।
।
।
३१. तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ।
।
५.३९.३१।
।
।
।
३२. तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।
।
५.३९.३२।
।
।
।
३३. देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।
।
५.३९.३३।
।
।
।
३४. स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।
।
५.३९.३४।
।
।
।
३५. तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।
मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।
।
५.३९.३५।
।
।
।
३६. येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।
।
५.३९.३६।
।
।
।
३७. असकृत् तैर्महोत्साहैः ससागरधराधरा ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।
।
५.३९.३७।
।
।
।
३८. मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।
।
५.३९.३८।
।
।
।
३९. अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।
।
५.३९.३९।
।
।
।
४०. तदलं परितापेन देवि शोको व्यपैतु ते ।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।
।
५.३९.४०।
।
।
।
४१. मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।
।
५.३९.४१।
।
।
।
४२. तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।
।
५.३९.४२।
।
।
।
४३. सगणं रावणं हत्वा राघवो रघुनन्दनः ।
त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।
।
५.३९.४३।
।
।
।
४४. तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।
नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।
।
५.३९.४४।
।
।
।
४५. निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।
।
५.३९.४५।
।
।
।
४६. क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।
।
५.३९.४६।
।
।
।
४७. एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।
।
५.३९.४७।
।
।
।
४८. तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।
।
५.३९.४८।
।
।
।
४९. नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।
वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।
।
५.३९.४९।
।
।
।
५०. शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।
।
५.३९.५०।
।
।
।
५१. स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ।
।
५.३९.५१।
।
।
।
५२. मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।
।
५.३९.५२।
।
।
।
५३. रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।
।
५.३९.५३।
।
।
।
५४. नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।
न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।
।
५.३९.५४।
।