Sanatan Gyan
सनातन ज्ञानSanatan Gyan

सुन्दर काण्ड, सर्ग ३७Sundara kanda, sarga 37

सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ३७Sarga 37
१. सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।
।
५.३७.१।
।
।
।
२. अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।
यच्च नान्यमना रामो यच्च शोकपरायणः ।
।
५.३७.२।
।
।
।
३. ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।
।
५.३७.३।
।
।
।
४. विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।
।
५.३७.४।
।
।
।
५. शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।
प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।
।
५.३७.५।
।
।
।
६. राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।
।
५.३७.६।
।
।
।
७. स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।
।
५.३७.७।
।
।
।
८. वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।
रावणेन नृशंसेन समयो यः कृतो मम ।
।
५.३७.८।
।
।
।
९. विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।
।
५.३७.९।
।
।
।
१०. मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।
।
५.३७.१०।
।
।
।
११. ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।
तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।
।
५.३७.११।
।
।
।
१२. असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।
।
५.३७.१२।
।
।
।
१३. उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।
।
५.३७.१३।
।
।
।
१४. चतुर्दश सहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।
।
५.३७.१४।
।
।
।
१५. न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।
अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।
।
५.३७.१५।
।
।
।
१६. शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।
।
५.३७.१६।
।
।
।
१७. इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।
अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।
।
५.३७.१७।
।
।
।
१८. कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।
।
५.३७.१८।
।
।
।
१९. अथवा मोचयिष्यामि त्वामद्यैव वरानने ।
अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।
।
५.३७.१९।
।
।
।
२०. त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।
।
५.३७.२०।
।
।
।
२१. द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।
व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।
।
५.३७.२२।
।
।
।
२२. त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।
पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।
।
५.३७.२३।
।
।
।
२३. पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।
।
५.३७.२४।
।
।
।
२४. कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।
मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।
।
५.३७.२५।
।
।
।
२५. न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।
।
५.३७.२६।
।
।
।
२६. यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।
।
५.३७.२७।
।
।
।
२७. मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।
हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।
।
५.३७.२८।
।
।
।
२८. हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।
तदेव खलु ते मन्ये कपित्वं हरियूथप ।
।
५.३७.२९।
।
।
।
२९. कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।
।
५.३७.३०।
।
।
।
३०. सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।
।
५.३७.३१।
।
।
।
३१. न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।
तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।
।
५.३७.३२।
।
।
।
३२. इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।
दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।
।
५.३७.३३।
।
।
।
३३. स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।
।
५.३७.३४।
।
।
।
३४. मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।
।
५.३७.३५।
।
।
।
३५. हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।
।
५.३७.३६।
।
।
।
३६. सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।
लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।
।
५.३७.३७।
।
।
।
३७. तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।
।
५.३७.३८।
।
।
।
३८. तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।
।
५.३७.३९।
।
।
।
३९. तव सत्त्वं बलं चैव विजानामि महाकपे ।
वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।
।
५.३७.४०।
।
।
।
४०. प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।
उदधेरप्रमेयस्य पारं वानरपुङ्गव ।
।
५.३७.४१।
।
।
।
४१. जानामि गमने शक्तिं नयने चापि ते मम ।
अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।
।
५.३७.४२।
।
।
।
४२. अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।
वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।
।
५.३७.४३।
।
।
।
४३. अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।
प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।
।
५.३७.४४।
।
।
।
४४. पतिता सागरे चाहं तिमिनक्रझषाकुले ।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ।
।
५.३७.४५।
।
।
।
४५. न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।
कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।
।
५.३७.४६।
।
।
।
४६. ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।
।
५.३७.४७।
।
।
।
४७. तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।
।
५.३७.४८।
।
।
।
४८. सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।
।
५.३७.४९।
।
।
।
४९. युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।
प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।
।
५.३७.५०।
।
।
।
५०. अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।
कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।
।
५.३७.५१।
।
।
।
५१. अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।
।
५.३७.५२।
।
।
।
५२. मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।
।
५.३७.५३।
।
।
।
५३. अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।
त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।
।
५.३७.५४।
।
।
।
५४. कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।
।
५.३७.५५।
।
।
।
५५. अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।
आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।
।
५.३७.५६।
।
।
।
५६. त्वया हि सह रामस्य महानागमने गुणः ।
।
।
५.३७.५७।
।
।
।
५७. मयि जीवितमायत्तं राघवस्य महात्मनः ।
भ्रातऽणां च महाबाहो तव राजकुलस्य च ।
।
५.३७.५८।
।
।
।
।
५८. तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।
।
५.३७.५९।
।
।
।
५९. भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।
।
५.३७.६०।
।
।
।
६०. यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।
अनीशा किं करिष्यामि विनाथा विवशा सती ।
।
५.३७.६१।
।
।
।
६१. यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।
।
५.३७.६२।
।
।
।
६२. श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।
न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।
।
५.३७.६३।
।
।
।
६३. समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।
।
५.३७.६४।
।
।
।
६४. सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।
सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।
।
५.३७.६५।
।
।
।
६५. स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।
।
५.३७.६६।
।