सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ३६Sarga 36
१. भूय एव महातेजा हनुमान् मारुतात्मजः ।
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।
।
५.३६.१।
।
।
।
२. वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।
।
५.३६.२।
।
।
।
३. प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।
।
५.३६.३।
।
।
।
४. गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।
भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।
।
५.३६.४।
।
।
।
५. चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।
।
५.३६.५।
।
।
।
६. ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।
।
५.३६.६।
।
।
।
७. विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।
।
५.३६.७।
।
।
।
८. शतयोजनविस्तीर्णः सागरो मकरालयः ।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।
।
५.३६.८।
।
।
।
९. नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।
यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।
।
५.३६.९।
।
।
।
१०. अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।
यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।
।
५.३६.१०।
।
।
।
११. प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।
पराक्रममविज्ञाय मत्सकाशं विशेषतः ।
।
५.३६.११।
।
।
।
१२. दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।
।
५.३६.१२।
।
।
।
१३. कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।
।
५.३६.१३।
।
।
।
१४. अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।
।
५.३६.१४।
।
।
।
१५. कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।
।
५.३६.१५।
।
।
।
१६. कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।
कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।
।
५.३६.१६।
।
।
।
१७. द्विविधं त्रिविधोपायमुपायमपि सेवते ।
विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।
।
५.३६.१७।
।
।
।
१८. कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।
।
५.३६.१८।
।
।
।
१९. कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।
।
५.३६.१९।
।
।
।
२०. कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।
।
५.३६.२०।
।
।
।
२१. सुखानामुचितो नित्यमसुखानामनूचितः ।
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।
।
५.३६.२१।
।
।
।
२२. कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।
अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।
।
५.३६.२२।
।
।
।
२३. मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।
।
५.३६.२३।
।
।
।
२४. कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।
।
५.३६.२४।
।
।
।
२५. वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।
।
५.३६.२५।
।
।
।
२६. कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।
अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।
।
५.३६.२६।
।
।
।
२७. रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।
।
५.३६.२७।
।
।
।
२८. कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।
।
५.३६.२८।
।
।
।
२९. धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।
नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।
।
५.३६.२९।
।
।
।
३०. न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।
तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।
।
५.३६.३०।
।
।
।
३१. इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।
श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।
।
५.३६.३१।
।
।
।
३२. सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।
।
५.३६.३२।
।
।
।
३३. न त्वामिहस्थां जानीते रामः कमललोचने ।
तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।
।
५.३६.३३।
।
।
।
३४. श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।
।
५.३६.३४।
।
।
।
३५. विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।
।
५.३६.३५।
।
।
।
३६. तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।
।
५.३६.३६।
।
।
।
३७. तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ।
।
५.३६.३७।
।
।
।
३८. मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।
दर्दुरेण च ते देवि शपे मूलफलेन च ।
।
५.३६.३८।
।
।
।
३९. यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।
।
५.३६.३९।
।
।
।
४०. क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।
।
५.३६.४०।
।
।
।
४१. न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।
।
५.३६.४१।
।
।
।
४२. नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।
राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।
।
५.३६.४२।
।
।
।
४३. नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।
नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।
।
५.३६.४३।
।
।
।
४४. अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।
।
५.३६.४४।
।
।
।
४५. दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।
।
५.३६.४५।
।
।
।
४६. स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।
दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।
।
५.३६.४६।
।
।
।
४७. सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।
शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।
।
५.३६.४७।
।