Sanatan Gyan
सनातन ज्ञानSanatan Gyan

सुन्दर काण्ड, सर्ग ३५Sundara kanda, sarga 35

सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ३५Sarga 35
१. तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।
उवाच वचनं सान्त्वमिदं मधुरया गिरा ।
।
५.३५.१।
।
।
।
२. क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
वानराणां नराणां च कथमासीत् समागमः ।
।
५.३५.२।
।
।
।
३. यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।
।
५.३५.३।
।
।
।
४. कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।
।
५.३५.४।
।
।
।
५. एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।
ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।
।
५.३५.५।
।
।
।
६. जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।
भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।
।
५.३५.६।
।
।
।
७. यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।
लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।
।
५.३५.७।
।
।
।
८. रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।
।
५.३५.८।
।
।
।
९. तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।
।
५.३५.९।
।
।
।
१०. रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।
।
५.३५.१०।
।
।
।
११. रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ।
।
५.३५.११।
।
।
।
१२. अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।
।
५.३५.१२।
।
।
।
१३. राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।
श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।
।
५.३५.१३।
।
।
।
१४. यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।
धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।
।
५.३५.१४।
।
।
।
१५. विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।
गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।
।
५.३५.१५।
।
।
।
१६. दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।
समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।
।
५.३५.१६।
।
।
।
१७. त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।
।
५.३५.१७।
।
।
।
१८. त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।
।
५.३५.१८।
।
।
।
१९. चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।
महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।
।
५.३५.१९।
।
।
।
२०. दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।
षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।
।
५.३५.२०।
।
।
।
२१. सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।
देशकालविभागज्ञः सर्वलोकप्रियंवदः ।
।
५.३५.२१।
।
।
।
२२. भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।
अनुरागेण रूपेण गुणैश्चैव तथाविधः ।
।
५.३५.२२।
।
।
।
२३. तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।
विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।
।
५.३५.२३।
।
।
।
२४. त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।
।
५.३५.२४।
।
।
।
२५. ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।
।
५.३५.२५।
।
।
।
२६. वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।
परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।
।
५.३५.२६।
।
।
।
२७. ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।
।
५.३५.२७।
।
।
।
२८. स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।
।
५.३५.२८।
।
।
।
२९. ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।
तयोः समीपं मामेव प्रेषयामास सत्वरम् ।
।
५.३५.२९।
।
।
।
३०. तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।
।
५.३५.३०।
।
।
।
३१. तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।
।
५.३५.३१।
।
।
।
३२. निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।
तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।
।
५.३५.३२।
।
।
।
३३. ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।
परस्परकृताश्वासौ कथया पूर्ववृत्तया ।
।
५.३५.३३।
।
।
।
३४. ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।
।
५.३५.३४।
।
।
।
३५. ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।
।
५.३५.३५।
।
।
।
३६. स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।
तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।
।
५.३५.३६।
।
।
।
३७. ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।
यान्याभरणजालानि पातितानि महीतले ।
।
।
५.३५.३७।
।
।
।
३८. तानि सर्वाणि रामाय आनीय हरियूथपाः ।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।
।
५.३५.३८।
।
।
।
३९. तानि रामाय दत्तानि मयैवोपहृतानि च ।
स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।
।
५.३५.३९।
।
।
।
४०. तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।
तेन देवप्रकाशेन देवेन परिदेवितम् ।
।
५.३५.४०।
।
।
।
४१. पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।
प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।
।
५.३५.४१।
।
।
।
४२. शयितं च चिरं तेन दुःकार्तेन महात्मना ।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।
।
५.३५.४२।
।
।
।
४३. तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।
राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।
।
५.३५.४३।
।
।
।
४४. स तवादर्शनादार्ये राघवः परितप्यते ।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।
।
५.३५.४४।
।
।
।
४५. त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।
तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।
।
५.३५.४५।
।
।
।
४६. तवादर्शनशोकेन राघवः प्रविचाल्यते ।
महता भूमिकम्पने महानिव शिलोच्चयः ।
।
५.३५.४६।
।
।
।
४७. काननानि सुरम्याणि नदीः प्रस्रवणानि च ।
चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।
।
५.३५.४७।
।
।
।
४८. स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।
समित्रबान्धवं हत्वा रावणं जनकात्मजे ।
।
५.३५.४८।
।
।
।
४९. सहितौ रामसुग्रीवावुभावकुरुतां तदा ।
समयं वालिनं हन्तुं तव चान्वेषणं तथा ।
।
५.३५.४९।
।
।
।
५०. ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।
।
५.३५.५०।
।
।
।
५१. ततो निहत्य तरसा रामो वालिनमाहवे ।
सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।
।
५.३५.५१।
।
।
।
५२. रामसुग्रीवयोरैक्यं देव्येवं समजायत ।
हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।
।
५.३५.५२।
।
।
।
५३. स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।
।
५.३५.५३।
।
।
।
५४. आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।
अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।
।
५.३५.५४।
।
।
।
५५. ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।
चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।
।
५.३५.५५।
।
।
।
५६. अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।
प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।
।
५.३५.५६।
।
।
।
५७. तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।
भृशं शोकपरीतानामहोरात्रगणा गताः ।
।
५.३५.५७।
।
।
।
५८. ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।
।
५.३५.५८।
।
।
।
५९. विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।
।
५.३५.५९।
।
।
।
६०. दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।
।
५.३५.६०।
।
।
।
६१. तवनाशं च वैदेहि वालिनश्च वधं तथा ।
प्रायोववेशमस्माकं मरणं च जटायुषः ।
।
५३.५.६१।
।
।
।
६२. तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।
कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।
।
५.३५.६२।
।
।
।
६३. गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।
।
५.३५.६३।
।
।
।
६४. यवीयान् केन म भ्राता हतः क्व च निपातितः ।
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।
।
५.३५.६४।
।
।
।
६५. अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।
।
५.३५.६५।
।
।
।
६६. जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।
त्वां शशंस वरारोहे वसन्तीं रावणालये ।
।
५.३५.६६।
।
।
।
६७. तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।
अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।
।
५.३५.६७।
।
।
।
६८. विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।
त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।
।
५.३५.६८।
।
।
।
६९. अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।
चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।
।
५.३५.६९।
।
।
।
७०. तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।
व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।
।
५.३५.७०।
।
।
।
७१. लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।
।
५.३५.७१।
।
।
।
७२. एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।
।
५.३५.७२।
।
।
।
७३. तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।
सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।
।
५.३५.७३।
।
।
।
७४. कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।
।
५.३५.७४।
।
।
।
७५. तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।
अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।
।
५.३५.७५।
।
।
।
७६. मयेयमसहायेन चरता कामरूपिणा ।
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।
।
५.३५.७६।
।
।
।
७७. दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।
अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।
।
५.३५.७७।
।
।
।
७८. दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।
।
५.३५.७८।
।
।
।
७९. राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।
।
५.३५.७९।
।
।
।
८०. माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।
।
५.३५.८०।
।
।
।
८१. स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।
तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।
।
५.३५.८१।
।
।
।
८२. तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।
हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।
।
५.३५.८२।
।
।
।
८३. विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।
अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।
।
५.३५.८३।
।
।
।
८४. एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।
।
५.३५.८४।
।
।
।
८५. अतुलं च गता हर्षं प्रहर्षेण च जानकी ।
नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।
।
५.३५.८५।
।
।
।
८६. चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।
।
५.३५.८६।
।
।
।
८७. हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।
।
५.३५.८७।
।
।
।
८८. एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।
।
५.३५.८८।
।
।
।
८९. हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।
ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।
।
५.३५.८९।
।