Sanatan Gyan
सनातन ज्ञानSanatan Gyan

सुन्दर काण्ड, सर्ग ३०Sundara kanda, sarga 30

सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग ३०Sarga 30
१. हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।
।
५.३०.१।
।
।
।
२. अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ।
।
५.३०.२।
।
।
।
३. यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।
।
५.३०.३।
।
।
।
४. चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ।
।
५.३०.४।
।
।
।
५. राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।
।
५.३०.५।
।
।
।
६. युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।
।
५.३०.६।
।
।
।
७. अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।
।
५.३०.७।
।
।
।
८. यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।
।
५.३०.८।
।
।
।
९. गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।
।
५.३०.९।
।
।
।
१०. मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।
।
५.३०.१०।
।
।
।
११. निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।
कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।
।
५.३०.११।
।
।
।
१२. अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।
।
५.३०.१२।
।
।
।
१३. रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।
किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।
।
५.३०.१३।
।
।
।
१४. सीतासन्देशरहितं मामितस्त्वरया गतम् ।
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।
।
५.३०.१४।
।
।
।
१५. यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।
।
५.३०.१५।
।
।
।
१६. अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।
।
५.३०.१६।
।
।
।
१७. अहं त्वति तनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।
।
५.३०.१७।
।
।
।
१८. यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ।
वानरस्य विशेषेण कथं स्यादभिभाषणम् ।
।
५.३०.१८।
।
।
।
१९. अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।
।
५.३०.१९।
।
।
।
२०. सेयमालोक्य मे रूपं जानकी भाषितं तथा ।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।
।
५.३०.२०।
।
।
।
२१. ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।
जानमाना विशालाक्षी रावणं कामरूपिणम् ।
।
५.३०.२१।
।
।
।
२२. सीतया च कृते शब्दे सहसा राक्षसीगणः ।
नानाप्रहरणो घोरः समेयादन्तकोपमः ।
।
५.३०.२२।
।
।
।
२३. ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।
।
५.३०.२३।
।
।
।
२४. गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।
।
५.३०.२४।
।
।
।
२५. मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।
।
५.३०.२५।
।
।
।
२६. ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।
।
५.३०.२६।
।
।
।
२७. ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।
आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।
।
५.३०.२७।
।
।
।
२८. संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।
शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।
।
५.३०.२८।
।
।
।
२९. मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।
।
५.३०.२९।
।
।
।
३०. हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।
।
५.३०.३०।
।
।
।
३१. उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।
सागरेण परिक्षिप्ते गुप्त वसति जानकी ।
।
५.३०.३१।
।
।
।
३२. विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।
।
५.३०.३२।
।
।
।
३३. विमृशंश्च न पश्यामि यो हते मयि वानरः ।
शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।
।
५.३०.३३।
।
।
।
३४. कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।
नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।
।
५.३०.३४।
।
।
।
३५. असत्यानि च युद्धानि संशयो मे न रोचते ।
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।
।
५.३०.३५।
।
।
।
३६. प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।
।
५.३०.३६।
।
।
।
३७. भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।
।
५.३०.३७।
।
।
।
३८. अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।
।
५.३०.३८।
।
।
।
३९. न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।
।
५.३०.३९।
।
।
।
४०. कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।
।
५.३०.४०।
।
।
।
४१. राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।
।
५.३०.४१।
।
।
।
४२. इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।
।
५.३०.४२।
।
।
।
४३. श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।
।
५.३०.४३।
।
।
।
४४. इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।
।
५.३०.४४।
।