Sanatan Gyan
सनातन ज्ञानSanatan Gyan

सुन्दर काण्ड, सर्ग २३Sundara kanda, sarga 23

सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग २३Sarga 23
१. तथा तासां वदन्तीनां परुषं दारुणं बहु ।
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।
।
५.२३.१।
।
।
।
२. एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।
।
५.२३.२।
।
।
।
३. न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ।
।
५.२३.३।
।
।
।
४. सा राक्षसी मध्यगता सीता सुरसुतोपमा ।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।
।
५.२३.४।
।
।
।
५. वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।
।
५।
।
।
।
६. सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।
चिन्तयामास शोकेन भर्तारं भग्नमानसा ।
।
५.२३.६।
।
।
।
७. सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।
चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ।
।
५.२३.७।
।
।
।
८. सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ।
।
५.२३.८।
।
।
।
९. तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा ।
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।
।
५.२३.९।
।
।
।
१०. सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।
।
५.२३.१०।
।
।
।
११. हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ।
।
५.२३.११।
।
।
।
१२. लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।
।
५.२३.१२।
।
।
।
१३. यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता ।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।
।
५.२३.१३।
।
।
।
१४. एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।
समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ।
।
५.२३.१४।
।
।
।
१५. भर्तारं तमपश्यन्ती राक्षसीवशमागता ।
सीदामि खलु शोकेन कूलं तोयहतं यथा ।
।
५.२३.१५।
।
।
।
१६. तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।
।
५.२३.१६।
।
।
।
१७. सर्वथा तेन हीनाया रामेण विदितात्मना ।
तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।
।
५.२३.१७।
।
।
।
१८. कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।
।
५.२३.१८।
।
।
।
१९. जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ।
।
५.२३.१९।
।
।
।
२०. धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ।
।
५.२३.२०।
।