सुन्दर काण्डSundara kandaरामायणRamayanaहनुमानHanumanसर्ग १Sarga 1
१. ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि
२. दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।
समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ
३. अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरः सलिलकल्पेषु विच्चार यथासुखम्
४. द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
मृगांश्च सुबाहुन्निघ्नन् प्रवृद्ध इव केसरी
५. नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।
स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम्
६. कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छिदैः ।
यक्षकिन्नरगन्धर्वैर्देवक्ल्पैश्च पन्नगैः
७. स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ
८. स सूर्याय महेन्द्राय पवनाय स्वयंभुवे ।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्
९. अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोओनयो ।
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिश्म्
१०. प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थम् समुद्र इव पर्वसु
११. निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्
१२. स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्
१३. तेन पादपमुक्तेन पुष्पौघेन सुगन्धिना ।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा
१४. तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः
१५. पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः
१६. मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः
१७. गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ।
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः
१८. स महासत्त्वसंनादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च
१९. शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः
२०. तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।
जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा
२१. यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्
२२. भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह
२३. पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्रणि च महार्हाणि करकांश्च हिरण्मयान्
२४. लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्
२५. कृतक्ण्ठगुणाः क्षीबा र्क्तमाल्यानुलेपनाः ।
र्क्तक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे
२६. हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह
२७. दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्
२८. शुश्रुवुश्चतदा शब्दमृषीणां भावितात्मनाम्।
चारणानां च सिद्धानां स्थितानांविमलेऽम्बरे
२९. एष पर्वतसंकाशो हनूमान् मारुतात्मजः ।
तितीर्षति महावेगः समुद्रं मकरालयम्
३०. रामार्थं वानरार्थं च चिकीर्षन् कर्मदुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति
३१. इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम्
३२. दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।
ननाद सुमहानादं सुमहानिव तोयदः
३३. आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्
३४. तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः
३५. बाहू संस्तंभयामास महापरिघसंनिभौ ।
ससाद च कपिः क्ट्यां चरणौ संचुकोच च
३६. संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।
तेजः स्त्त्वं तथा वीर्यमाविवेश स वीर्यवान्
३७. मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन्
३८. पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्
३९. यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।
गच्चेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्
४०. न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।
अनेनैव हि वेगेन गमिष्यामि सुरालयम्
४१. यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्
४२. सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्
४३. एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः
४४. उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः
४५. समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः
४६. स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे
४७. ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबन्धमिव बान्धवाः
४८. तमूरुवेगोन्मथिताःसालाश्चन्ये नगोत्तमाः।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्
४९. सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः
५०. सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।
भयादिव महेन्द्रस्य पर्वता वरुणालये
५१. स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।
शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः
५२. विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा
५३. लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्
५४. ताराचितमिवाकाशं प्रबभौ च महार्णवः ।
पुष्पौघेनानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गणविभूषितः
५५. तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत
५६. ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ
५७. पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।
पिबन्निव बभौ चापि सोओर्मिमालं महार्णवम्
५८. पिपासुरिव चाकाशं ददृशे स महाकपिः ।
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः
५९. नयने विप्रकाशेते पर्वतस्थाविवानलौ ।
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले
६०. चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ।
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ
६१. सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते
६२. अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ।
लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः
६३. व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः
६४. महता दारितेनेव गिरिर्गैरिकधातुना ।
तस्य वानरसिंहस्य प्लवमानस्य सागरम्
६५. कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।
खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता
६६. दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः
६७. प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ।
उपरिष्टाच्छरीरेण छायया चावगाढया ।
सागरे मारुताविष्टा नौरिवासीत्तदा कपिः
६८. यं यं देशं समुद्रस्य जगाम स महाकपिः ।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते
६९. सागरस्योओर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः
७०. कपिवातश्च बलवान् मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्
७१. विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी
७२. मेरुमन्दरसंकाशानुद्धतान् स महार्णवे ।
अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव
७३. तस्य वेगसमुद्धूतं जलं सजलदं तदा ।
अम्बर्स्थं विबभ्राज शारदाभ्रमिवाततम्
७४. तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्
७५. प्लवमानं समीक्ष्यथ भुजङ्गाः सागरालयाः ।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे
७६. दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जले चारुतराभवत्
७७. श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया वितता लवणाम्भसि
७८. शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः
७९. येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः
८०. आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ।
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा
८१. पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे
८२. प्रविशन्नभ्रजालानिनिष्पतंश्च पुनः पुनः ।
प्रच्चन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते
८३. प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।
ववर्षुः पुष्पवर्षणि देवगन्धर्वदानवाः
८४. तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।
सिषेवे च तदा वायू रामकार्याद्थसिद्धये
८५. ऋषयस्तुष्टुवुश्चैव प्लवमानं विहायसा ।
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम्
८६. नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः
८७. प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति
८८. इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ।
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः
८९. करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।
अहमिक्ष्वाकुनाथेन सगरेण विवर्धतः
९०. इक्ष्वाकुसचिचश्चायं नावसीदितुमर्हति ।
तथा मया विधातव्यं विश्रमेत यथा कपिः
९१. शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ।
इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमम्भसि
९२. हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।
त्वमिहासुरसंघानां पाताLअतलवासिनां
९३. देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ।
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम्
९४. पाताLअस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्
९५. तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।
न एष कपिशार्दूलस्त्वमुपर्येति वीर्यवान्
९६. हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः
९७. मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्
९८. कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि
९९. अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।
चामीकरमहानाभ देवगन्धर्व सेवित
१००. हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ।
काकुत्थ्सस्यानृशंस्यं च मैथिल्याश्च विवासनम्
१०१. श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।
हिरण्य नाभो मैनाको निशम्य लवणाम्भसः
१०२. उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।
स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा
१०३. यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।
स महात्मा मुहूर्तेन सर्वतः सलिलावृतः
१०४. द्र्शयामास शृङ्गाणि सागरेण नियोजितः ।
शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः
१०५. आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ।
तप्तजाम्बूनदैः शृङिगाः पर्वतस्य समुत्थितैः
१०६. आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ।
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः
१०७. आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ।
तमुत्थितमसंगेन हनुमानग्रतः स्थितम्
१०८. मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।
स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः
१०९. उरसा पातयामास जीमूतमिव मारुतः ।
स तथा पातितस्तेन कपिना पर्वतोत्तमः
११०. बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।
तमाकाशगतं वीरमाकाशे समुपस्थितः
१११. प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः
११२. दुष्करं कृतावन्कर्म त्वमिदं वानरोत्तम ।
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्
११३. राघवस्य कुले जातैरुदधिः परिवर्धितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः
११४. कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।
सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति
११५. त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।
योजनानां शतं चापि कपिरेष समाप्लुतः
११६. तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्
११७. तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि
११८. अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः
११९. वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर
१२०. अतिथिः किलपूजार्हः प्राकृतोऽपि विजानता ।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान्
१२१. त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर
१२२. पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।
तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्
१२३. पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।
ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः
१२४. ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः ।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया
१२५. ततः क्रुद्धः सहस्राअक्षः पर्वतानां शतक्रतुः ।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः
१२६. स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततोऽहं सहसा क्षिप्तः स्वसनेन महात्मना
१२७. अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः
१२८. ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।
त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः
१२९. अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे
१३०. श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्
१३१. एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्
१३२. त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्त्तरे
१३३. इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव
१३४. स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः
१३५. अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।
पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे
१३६. भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।
वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे
१३७. तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
प्रश्शंसुः सुराः सर्वे सिद्धाश्च परमर्षयः
१३८. देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः
१३९. उवाच वचनं धीमान् परितोषात्सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः
१४०. हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्
१४१. साह्यं ते सुमहद्विक्रान्तस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति
१४२. रामस्यैष हितायैव याति दाशरथेर्हरिः ।
सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया
१४३. ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्
१४४. स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम्
१४५. ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रूवन् सूर्यसंकाशां सुरसां नागमातरम्
१४६. अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर
१४७. राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्रकराLअं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम्
१४८. बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति
१४९. एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः
१५०. विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह
१५१. मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम्
१५२. एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्
१५३. रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
१५४. अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीत हृता भार्या रावणेन यशस्विनी
१५५. तस्याः सकाशं दूतोऽहं गमिष्ये रामकारणात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि
१५६. अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
१५७. एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम
१५८. तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना वै नागमाता हनूमतः
१५९. प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा
१६०. व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुञ्गवः
१६१. अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।
प्रविश्य वदनं मेऽद्य ग्न्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो ममम् ध्रात्रेति सत्वरा
१६२. व्यादाय विपुलं वक्त्रं स्थिता सा मरुतेः पुरः ।
तं दृष्ह्ट्वा मेघसंकाशं दशयोजनमायतम्
१६३. चकार सुरसा चास्यं विंशद्योजनमायतम् ।
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः
१६४. चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।
बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः
१६५. चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।
तथैव हनुमान्वीरः सप्ततीयोजिनोच्छ्रितः
१६६. चकार सुरसा व्क्त्रम्शीतीयोजनोच्छ्रितम् ।
हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः
१६७. तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्
१६८. सुसंक्षिप्यात्मनः कायं बभूवाञ्गुष्ठमात्रकः ।
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्
१६९. प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव
१७०. तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्
१७१. अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानयस्व वैदेहीं राघवेण महात्मना
१७२. तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रश्शंसुस्तदा हरिम्
१७३. स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः
१७४. चरिते कैशिकाचार्यैरैरावतनिषेविते
१७५. सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः संपतद्भिश्च विमलैः समलंकृते
१७६. वज्राशनिसमाघातैः पावकैरुपशोभिते ।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते
१७७. वहता हव्यमत्यर्थं सेविते चित्रभानुना ।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते
१७८. महर्षिगणगन्धर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते
१७९. देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते
१८०. बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।
जगाम वायुमार्गे तु गरुत्मानिव मारुतिः
१८१. प्रदृश्यमानः सर्वत्र हनुमान्मारुतात्मजः ।
भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट्
१८२. प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी
१८३. अद्य दीर्Gहस्य कालस्य भविष्याम्यहामाशिता ।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम्
१८४. इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिन्तयामास वानरः
१८५. समाक्षिप्तोऽस्मि तरसा पञूकृतपराक्रमः ।
प्रतिलोमेन वातेन महानौरिव सागरे
१८६. तिर्यगूर्ध्वमधश्चैव वीक्षिमाणस्ततः कपिः ।
ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि
१८७. छाय्तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम्
१८८. आग्राहि महावीर्यं तदिदं नात्र संशयः ।
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।
व्यवर्धत महाकायः प्रवृषीव वलाहकः
१८९. तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः
१९०. वक्त्रं प्रसारयामास पाताLआन्तरसन्निभम् ।
घनराजीव गर्जन्ती वानरं सम्भिद्रवत्
१९१. स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।
कायमात्रं च मेधावी मर्माणि च महाकपिः
१९२. स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।
संक्षिप्य मुहुरात्मानं निष्पपात महाबलः
१९३. आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा
१९४. ततस्तस्या नखैस्तीक्णैर्मर्माण्युत्कृत्य वानरः ।
उत्पपाताथ वेगेन मनः संपातविक्रमः
१९५. तां तु दृष्ट्वा च धऋत्या च दाक्षिण्येन निपात्य च ।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान्
१९६. हृतहृत्सा हनुमता पपात विधुराम्भसि ।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्
१९७. भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् ।
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्
१९८. साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव
१९९. धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ।
स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः
२००. जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन्
२०१. योजनानां शतस्यान्ते वनराजिं ददर्श सः ।
ददर्श च पतन्नेव विविधद्रुमभूषितम्
२०२. द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ।
सागरं सागरानूपं सागरानूपजान् द्रुमान्
२०३. सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान्
२०४. निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ।
कायवृद्धिं प्रवेगं च मम दृष्ट्वव राक्षसाः
२०५. मयि कौतूहलं कुर्युरिति मेने महाकपिः ।
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्
२०६. पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।
तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः
२०७. त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।
स चारुनानाविधरूपधारी ।
परं समासाद्य समुद्रतीरम् ।
परैरशक्यः प्रतिपन्नरूपः ।
समीक्षितात्मा समवेक्षितार्थः
२०८. ततः स लम्बस्य गिरेः समृद्धे ।
विचित्रकूटे निपपात कूटे ।
सकेतकोद्दालकनाLइकेरे ।
महाभ्रकूटप्रतिमो महात्मा
२०९. ततस्तु संप्राप्य समुद्रतीरं ।
समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।
कपिस्तु तस्मिन्निपपात पर्वते ।
विधूय रूपं व्यथयन्म्Rऋगद्विजान्
२१०. स सागरं दानवपन्नगायुतं ।
बलेन विक्रम्य महोर्मिमालिनम् ।
निपत्य तीरे च महोदधेस्तदा ।
ददर्श लङ्काममरावतीमिव